________________
९२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
[सू०२२ ] लोगं च आणाए अभिसमेच्चा अकुतो -
भयं ।
से बेमिव सयं लोगं अब्भाइक्खेज्जा, णेव अत्ताणं अब्भाइक्खेज्जा । जे लोगं अब्भाइक्खति से अत्ताणं 5 अब्भाइक्खति, जे अत्ताणं अब्भाइक्खति से लोगं अब्भाइक्खति ।
लोगं चेत्यादि । अथवा यद्यपि भवतो मंतिर्न क्रमतेऽप्कायजीवविषये असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह - लोगं च आणाए अभिसमेच्च अकुओभयं, अत्राधिकृतत्वाद् अप्कायलोको लोक10 शब्देनाभिधीयते । अप्कायलोकं चशब्दाद् अन्यांश्च पदार्थान् आज्ञया मौनीन्द्रवचनेन आभिमुख्येन सम्यग् इत्वा ज्ञात्वा यथा - अप्कायादयो जीवा इत्यवगम्य, न विद्यते कुतश्चिद्धेतोः केनापि प्रकारेण जन्तूनां भयं यस्मात् . सोऽयमकुतोभयः संयमः तम्, अनुपालयेदिति सम्बन्धः । यद्वा अकुतोभयः अप्कायलोको यतोऽसौ न कुतश्चिद्भयमिच्छति मरणभीरुत्वात् तम् आज्ञया15 ऽभिसमेत्यानुपालयेद् रेदित्यर्थः ।
-
I
अप्कायलोकमाज्ञया अभिसमेत्य यत् कर्तव्यं तदाह-से बेमीत्यादि । सोऽहं ब्रवीमि । सेशब्दस्य युष्मदर्थत्वात् त्वां वा ब्रवीमि । न स्वयम् आत्मना लोकः अप्कायलोकोऽभ्याख्यातव्यः । अभ्याख्यानं नाम असदभियोगः, यथाअचौरं चौरमित्याह । इह तु जीवा न भवन्त्यापः, केवलमुपकरणमात्रं घृत20 तैलादिवत्, एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात् । स्यादारेका–नन्वेतदेवाभ्याख्यानं यद् अजीवानां जीवत्वापादनम् ? नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वम्, यथा ह्यस्य शरीरस्याहंप्रत्ययादिभि
१. मतिर्नाक्रमते क । २. ०ते । तमप्कायलोकं ग च । ३. ०न्द्रप्रवचनेन घ ङ च । ४. इत्येवमभिगम्य ख, इत्येवमवगम्य च । ५. सोऽकुतोभयः ख । ६. यदि वा ख च । ७. कुतोऽपि भय० ख । ८. भीतत्वात् ख । ९. रक्षयेदित्यर्थः च ।