________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः
तथापि स्तोक एव तादृक्, बहवश्च परिपतन्ति, अतोऽभिधीयतेतामेवानुपालयेदिति । कथं पुनः कृत्वा श्रद्धामनुपालयेत् ? इत्याह
९१
विजहेत्यादि, विहाय परित्यज्य विश्रोतसिकां शङ्काम् । सा च द्विधासर्वशङ्का देशशङ्का च । तत्र सर्वशङ्का किमस्ति आर्हतो मार्गो न वा ? इति । देशशङ्का तु किं विद्यन्तेऽप्कायादयो जीवविशेषाः प्रवचनेऽभिहितत्वात्, 5 प्रस्पष्टचेतनात्मलिङ्गाभावाद् न विद्यन्ते इति वा ? इति । एवमादिकामारेकां विहाय सम्पूर्णानगारगुणान् पालयेत् । यदि वा विश्रोतांसि द्रव्य- भावभेदाद् द्विधा । तत्र द्रव्यविश्रोतांसि नद्यादिश्रोतसां प्रतीपगमनानि । भावविश्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिश्रोतसा प्रस्थितानां विरूपाणि प्रतिकूलानि गमनानि भाववि– श्रोतांसि, तानि विहाय सम्पूर्णानगारगुणभाग् भवति, श्रद्धां चाऽनुपालयेदिति । 10 पाठान्तरं वा विजहित्ता पुव्वसंजोगं पूर्वसंयोग: माता- - पित्रादिभिः, चोपलक्षणार्थत्वात् पश्चात्संयोगोऽपि श्वसुरादिकृतो ग्राह्यः तं विहाय परित्यज्य श्रद्धामनुपालयेदिति मीलनीयम् । तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विश्रोतांसि तदनु श्रद्धानुपालनं कार्यम्' स एवाभिधीयते - न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किन्त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह
अस्य
)
15
[सू०२१] पणया वीरा महावीहिं ।
प्रणताः प्रह्लह्णः । वीराः परीषह-उपसर्ग-कषायसेनाविजयात् । वीथिः पन्थाः, महांश्चासौ वीथिश्च महावीथिः सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैर्दक्षैः प्रहतः, तं प्रति प्रह्वाः वीर्यवन्तः संयमानुष्ठानं 20 कुर्वन्ति । ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविश्रम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते । उपदेशान्तरमाह
१. विजहित्तेत्यादि घ ङ च । २. मार्ग उत न ? इति । ख च । ३. जीवा विशेष्यप्रवचने च । ४ ० माशङ्कां ख । ५. ०सि विहाय ग । ६. ० पित्रादिः अस्य ग च । ७. ०य त्यक्त्वा श्रद्धा० ख ग च । ८. श्रद्धापालनं च । ९. ० उपसर्गविजयात् ख । १०. दक्षैः इति कप्रति विमुच्यान्यत्र न वर्तते । ११. सुखेन प्रव० ख च ।