SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यात् ? इत्याह [सू०२०] जाए सद्धाए णिक्खंतो तमेव अणुपालिया विजहित्ता विसोत्तियं । जाए सद्धाए इत्यादि । यया श्रद्धया प्रवर्धमानसंयमस्थानकण्डक5 रूपया निष्क्रान्तः प्रव्रज्यां गृहीतवान् तामेव श्रद्धामश्रान्तो यावज्जीवम् अनु पालयेत् रक्षेदित्यर्थः । प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रव्रजति, पश्चात् तु संयमश्रेणी प्रतिपन्नो वर्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति । तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तमौहर्तिकः, नातः परं सङ्क्लेश-विशुद्ध्यद्धे भवतः, उक्तं च नान्तर्मुहूर्तकालमतिवृत्य शक्यं हि जगति सङ्क्लेष्टुम् । नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स भावो व्यर्थाऽत्र हेतूक्तिः ॥[ ] अवस्थितकालश्च द्वयोवृद्धि-हानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, 15 तत ऊर्द्धमवश्यं पातात् । अयं च वृद्धि-हानि-अवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यः, न च्छद्मस्थानामिति । यद्यपि च प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित् प्रवर्धमानमेव परिणामं भजते, तथा चोक्तम् जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनवसंवेगसद्धाओ ॥ [बृ० क० भा० ११६७] १. जाइ सद्धाइ इत्यादि ख, जाए सद्धाएत्यादि ग घ ङ च । २. ०संयमानुष्ठानकरणरूपया ग, ०संयमानुष्ठानकण्डकरूपया घ, ०संयमस्थानरूपया ख । ३. रक्षयेदित्यर्थः ख च । ४. ०श्रेणीप्रतिपन्नो ग घ च । ५. विशोद्ध्यद्धे ख च । ६. अवस्थितिकालश्च ग घ ङ। ७. "वृद्धि-हानिलक्षणयोः इति ज[हा-?] ४ ५ ६ ७ ८ ७ ६ ५ ४ ३ २ वृद्धिहानिकालोऽप्ययमेव, नवरं व्यत्ययेन' जै०वि०प० । ८. ०मपुव्वं ख च । ९. पल्हाय ख । १०. ०सद्धाते क-खप्रती विना ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy