________________
८९
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे पवदमाणेत्यादिनेति । न विद्यते अगारं गृहमस्येत्यनगारः । इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणम्, तदाश्रयत्वात् सावद्यानुष्ठानस्य ।
.. - निरवद्यानुष्ठायी च मुनिरिति दर्शयति-उज्जुकडे त्ति ऋजु: अकुटिलः 5 संयमो दुष्प्रणिहितमनो-वाक्-कायनिरोधः सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद् दयैकरूपः सर्वत्राकुटिलगतिरिति यावत्, यदि वा मोक्षस्थानगमनर्जु श्रेणिप्रतिपत्तिः सर्वसंवरसंयमात्, कारणे कार्योपचारं कृत्वा संयम एव सप्तदशप्रकार ऋजुः, तं करोतीति ऋजुकृत् ऋजुकारीत्यर्थः । अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णाऽनगारः ।
10 एवंविधश्चेग भवतीति दर्शयति–नियागपडिवण्णे त्ति, यजनं यागः, नियतो निश्चितो वा यागो नियागो मोक्षमार्गः, सङ्गतार्थत्वाद् धातोः सम्यग्ज्ञानदर्शन-चारित्रात्मतया गतं सङ्गतमिति । तं नियागं सम्यग्दर्शन-ज्ञान-चारित्रात्मकं मोक्षमार्ग प्रतिपन्नो नियागप्रतिपन्नः । पाठान्तरं वा निकायप्रतिपन्नः, निर्गतः कायः औदारिकादिर्यस्माद् यस्मिन् वा सति स निकायः मोक्षः, तं प्रतिपन्नो 15 निकायप्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्यानुष्ठानात् ।
स्वशक्त्यानुष्ठानं चामायाविनो भवतीति दर्शयति-अमायं कुव्वमाणे त्ति, माया सर्वत्र स्ववीर्यनिगूहनम्, न माया अमाया, ताम् कुर्वाणः अनिगूहितबलवीर्यः संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यात इति । अनेन च तज्जातीयोपादानाद् अवशेषकषायापगमोऽपि द्रष्टव्य इति, उक्तं च
20 सोही य उज्जुभूयस्स, धम्मो सुद्धस्स चिट्ठइ ॥ [ उत्तरा० ] त्ति ।
१. मो त्तेगे पव० ख । २. गृहमेषामित्यनगाराः । इह घ ङ । ३. स च । ४. ०प्रतिपत्तेः ख-ङप्रती विना । ५. ०र: । स एवं० च । ६. "यज देवपूजासंगतिकरणदानेषु"पा०धा० १००२ । ७. स्वशक्त्यनुष्ठानं च । ८. कुव्वमाणो ख ग । ९. "तज्जातीय इति । कपायजातीय' जै०वि०प० । १०. ०नात् शेष० कसंज्ञकादर्शमृते । ११. वड्डई ॥ इत्यादि । तदेव० च, चिट्ठइत्यादि । तदेव० ख ।