SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ८८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे . किंचीत्यादि । किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य । किञ्चित् परकायशस्त्रं मृत्तिका-स्नेह-क्षारादिकम् । किञ्चिच्चोभयम् उदकमिश्रा मृत्तिका उदकस्येति । भावशस्त्रं त्वसंयमः प्रमत्तस्य दुष्प्रणिहितमनो-वाक्-कायलक्षण इति ॥११४॥ शेषद्वाराणि पृथिवीकायवद् नेतव्यानि इति दर्शयितुमाह5 सेसाणि उ दाराई ताई जाइं हवंति पुढवीए । एवं आउद्देसे निज्जुत्ती कित्तिया होइ ॥११५॥ सेसाणीत्यादि । शेषाणि इति उक्तशेषाणि निक्षेप-वेदना-वधनिवृत्तिरूपाणि । तान्येवात्र द्रष्टव्यानि यानि पृथिव्यां भवन्तीति । एवम् उक्त प्रकारेणाप्कायोद्देशके नियुक्तिः निश्चयेनार्थघटना कीर्तिता प्रदर्शिता भवतीति 10 ॥११५॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम् [ सू०१९] से बेमि-से जहा वि अणगारे उज्जुकडे णियागपडिवण्णे अमायं कुव्वमाणे वियाहिते । से बेमीत्यादि । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परिसमाप्तिसूत्रे 'पृथिवीकायसमारम्भव्यावृत्तो मुनिः' इत्युक्तम्, न चैतावता सम्पूर्णो 15 मुनिर्भवति, यथा च भवति तथा दर्शयति । तथाऽऽदि सूत्रेण सम्बन्धः सुधर्मस्वामी इदमाह श्रुतं मया भगवदन्तिके यत् प्राक् प्रतिपादितम् अन्यच्चेदमिति । एवं परम्परसूत्रसम्बन्धोऽपि प्राग्वद् वाच्यः । से शब्दः तच्छब्दार्थे । स यथा पृथ्वीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग् भवति तदहं ब्रवीमि । अपिः समुच्चये, यथा चाऽनगारो १. किंची० गाहा किञ्चित् च । २. तटाकस्य च । ३. किञ्चिच्च पर० ख च । ४. ०मिश्रमृत्तिका च । ५. सेसाई दाराइं अप्रत्या विना । ६. ०या एसा ख, ०या हुंति ज झ, ०या हुस्स ब । ७. ०बन्ध० ख ग । ८. ०वात्रापि द्रष्ट० कपुस्तकेन विना । ९. पृथिव्या ग । १०. भवन्ति । एवम् घ ङ। ११. ०वतीति, यथा ख । १२. दर्शयितुमाह । तथा० ख च । १३. 'सुयं मे आउसं !०' इत्यादिप्रथमोद्देशकस्याद्यसूत्रेणेत्यर्थः । १४. सूत्रेणायं सम्ब० ग । १५. अवलोक्यतां द्वितीयोद्देशकप्रथमसूत्रटीका । १६. ०र्थे । तद्यथा पृ० ख । १७. अपि ग च । १८. ०ये, स यथा ग च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy