________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः
एएहिँ कारणेहिं हिंसंती आउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥ ११२॥ दा०॥
एएत्यादि । एभिः स्नाना - ऽवगाहनादिकैः कारणैरुपस्थितैर्विषयविषमोहितात्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति व्यापादयन्ति । किमर्थमिति आह–सातं सुखं तद् आत्मनः अन्वेषयन्तः प्रार्थयन्तः, हिता- 5 ऽहितविचारशून्यमनसः कतिपयदिवसस्थायिरैम्ययौवनदर्पाध्मातचेतसः सदसद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः परस्य अप्कायादेर्जन्तुगणस्य दुःखम् असातलक्षणं तद् उदीरयन्ति, असातावेदनीयमुत्पादयन्तीत्यर्थः, उक्तं
च
एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याऽपमार्गचलने खलु कोऽपराध: ? ॥ [ ] इदानीं शस्त्रद्वारमुच्यते
उस्सचण गालणा धोयणे य उवकरण कोस भंडेय । बायर आउक्काए एयं तु समासओ सत्थं ॥११३॥
८७
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥११४॥
उस्सिचणेत्यादि । शस्त्रं द्रव्य - भावभेदाद् द्विधा । द्रव्यशस्त्रमपि समास - 15 विभागभेदाद् द्विधैव । तत्र समासतो द्रव्यशस्त्रमिदम् - ऊर्द्धं सेचनम् उत्सेचनम्, कूपादेः कोशादिनोत्क्षेपणमित्यर्थः । गालनं घनमसृणवस्त्रार्द्धान्तेन । धावनं वस्त्राद्युपकरण - चर्मकोश-घटादिभण्डकविषयम् । एवमादिकं बादराप्काये एतत् पूर्वोक्तं समासतः सामान्येन शस्त्रम् । तुशब्दो विभागापेक्षया विशेषणार्थः ॥११३॥ विभागतस्त्विदम्—
10
१. एएहीत्यादि प्रति विना । २. दर्शयति ख च । ३. ०रमणीययौवन ० ख च । ४. सन्तः सद्विवेक० ख-गप्रती ऋते । ५. अबादेर्जन्तु० कपुस्तकं विना । ६. असातवे० ख घ। ७. ओसिंचण क छ । ८. धोवणे ञ । ९. मत्त भंडे य ख ठ । १०. किंचि य पर० ञ । ११. भावे य असंजमो ज झ ठ ०तु असंजमो ञ ।
20