SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 5 10 ८६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वदिति । तथा आपो जीवशरीराणि, छेद्यत्वाद् भेद्यत्वाद् उत्क्षेप्यत्वाद् भोज्यत्वाद् भोग्यत्वाद् घ्रेयत्वाद् रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वाद् द्रव्यत्वाद्, एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनवर्जभूतधर्माश्च रूपवत्त्वाऽऽकारवत्त्वादयः । सर्वत्र चायं दृष्टान्तः - सास्ना - विषाणादिसङ्घातवदिति । ननु च रूपवत्त्वा-ऽऽकारवत्त्वादयो धर्माः परमाणुष्वपि दृष्टा इत्यनैकान्तिकता ? नैतदेवम्, यदत्र छेद्यत्वादि हेतुत्वेनोपन्यस्तं तत् सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः, अतः कारणाद् अतीन्द्रियपरमाणुव्यवच्छेदः । यदि वा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहिता-ऽसहितत्वं तु विशेषः, उक्तं च तणवोऽणब्भाइविगारमुत्तजाइत्तओऽणिलंता उ । सत्था - ऽसत्थहया उ, निज्जीव- सजीवख्या उ ॥ [ विशेषाव० १७५९] एवं शरीरत्वे सिद्धे सति प्रमाणम् - सचेतना हिमादयः, 'कँदाचिद् अप्कायत्वाद्, इतरोदकवदिति । तथा सचेतना आपः, क्वचित् खातभूमिस्वाभाविकसम्भवत्वात्, दर्दुरवत् । अथवा सचेतना अन्तरिक्षोद्भवा आप:, 15 स्वाभाविकव्योमसम्भूत सैम्पातित्वाद्, मत्स्यवत्, अत एते एवंविधलक्षणभाक्त्वाद् जीवा भवन्त्यप्कायाः । साम्प्रतमुपभोगद्वारमाह— ण्हाणे पियणे तेंह धोयणे य भत्तकरणे य सेए । आउस्स उ परिभोगो गमणा-ऽऽगमणे ये जाणाणं ॥ १११ ॥ हाणे इत्यादि । स्नान-पान - धावन - भक्तकरण-सेक-यानपात्रोडुप20 गमना-ऽऽगमनादिरुपभोगः ॥१११॥ तैंतश्च तत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्दिश्याप्कायवधे प्रवर्तन्त इति दर्शयितुमाह १. स्पृश्यत्वात् ख च । २. दृश्यद्रव्यत्वाद् क घ । ३. द्रवत्वाद् च । ४. ० यो भूतधर्माः ख ग च । ५. अतः प्रकरणाद् कप्रतिमृते । ६. च घ ङ । ७. “औ ( अ )णब्भा इति अनभ्रादिविकारमूर्तिजातित्वात् " जै०वि०प० । ८. " अन ( नि ) लंता इति पृथिव्यप्-तेजो-वायवः” जै०वि०प० । ९. ०रूवा उ ख ग च । १०. क्वचिद् क - खप्रतिभ्यां विना । ११. ० सम्पातत्वाद् ख घ ङ । १२. तहा झ । १३. धोवणे ञ । १४. य क ठसंज्ञकादर्शा ऋते । १५. य णावाणं कप्रत्या विना । १६. ततश्चैतत्परि० ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy