________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः
जे बायरेत्यादि । ये बादराप्कायपर्याप्तकास्ते संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः । शेषास्तु त्रयोऽपि राशयः विष्वक् पृथगसङ्ख्येयलोकाकाशप्रदेशराशिपरिमाणा इति । विशेषश्चायम् - बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असङ्ख्येयगुणाः, बादरपृथ्वीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असङ्ख्येयगुणाः, सूक्ष्मपृथिवीकाया - 5 पर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माप्कायपर्याप्तका विशेषाधिकाः ॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाह
जह हत्थिस्स सरीरं कैललावत्थस्स अहुणो (हुणु ) ववन्नस्स । जेह वोदगअंडस्स व एसुवमा आउजीवाणं ॥ ११०॥ दा० ॥
८५
10
जहेत्यादि । अथवा पर आक्षिपति - नांप्कायो जीवः, तल्लक्षणायोगात्, प्रश्रवणादिवदिति । अस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाहजहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम् एवमप्कायोऽपीति । यथा वा उदकप्रधानमण्डकमुदकाण्डकम् अधुनोत्पन्नमित्यर्थः, तन्मध्ये व्यवस्थितं रसमात्रमसञ्जातावयवमनभिव्यक्तचञ्च्वादि- 15 प्रविभागं चेतनावद् दृष्टम् । एषैवोपमाऽब्जीवानामपीति । हस्तिशरीरकललग्रहणं च महाकायत्वात् तद् बहु भवतीत्यतः सुखेन प्रतिपद्यते । अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थम्, यतः सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि । अण्डकेऽप्युदकग्रहणमेवमर्थमेव । प्रयोगश्चायम् - सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत् । विशेषणोपादानात् प्रश्रवणादि - 20 व्युदासः । तथा सात्मकं तोयम्, अनुपहतर्दैवत्वात्, अण्डकमध्यस्थितकलल
१. कललाकलियस्स अहु० छ ञ । २. होइ उदगंडगस्स य एसुवमा सव्वजीवाणं ख ठ....व तओवमा आउजी० छ, ...य तओवमा आउजी ० ज झ ... वि तयोवमा आउजी ० ञ । ३. तल्लक्षणरहितत्वात् ख च । ४. ० प्कायेऽपीति क । ५. ०प्रधानाण्डक० च । ६. तन्मध्यव्य० ख ग । ७. ०दिविभागं क । ८. ०मापजीवा० क ०माप्कायजीवा० ख । ९. अण्डकेषूदक० क, “उदकग्रहणमेव इति सप्ताहः परिग्रहार्थम् " जै०वि०प० । १०. ०द्रव्यत्वात्
ख ग घ । ११. ०स्थकलल० ख च ।