________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
I
श्यायादिरहितमिति । अवश्यायः रजन्यां यः स्नेहः पतति । हिमं तु शिशिरसमये शीतपुद्गलसम्पर्काद् जलमेव कठिनीभूतमिति । गर्भमासादिषु सायं प्रातर्वा धूमिकावपातो महिका इत्युच्यते । वर्षा शरत्कालयोर्हरिताङ्करमस्तकस्थितजलबिन्दुर्भूमिस्नेहसम्पर्कोद्भूतो हैरतणुशब्देनाभिधीयते । एवमेते पञ्च बादरा5 प्कायविधयो व्यावर्णिताः ।
८४
ननु च प्रज्ञापनायां बादराप्कायभेदा बहवः परिपठिताः, तद्यथा—करकशीत-उष्ण-क्षार-क्षत्र-कटु-अम्ल लवण- वरुण - कालोद - पुष्कर-क्षीर-घृतइक्षुरसादयः । कथं पुनस्तेषामत्र सङ्ग्रहः ? उच्यते - करकस्तावत्कठिनत्वाद् हिमान्त:पाती, शेषाश्च स्पर्श-रस-स्थान- वर्णमात्रभिन्नत्वाद् न शुद्धोदकमति10 वर्तन्ते । यद्येवं प्रज्ञापनायां किमर्थोऽपरभेदानां पाठः ? उच्यते - स्त्री - बालमन्दबुद्ध्यादिप्रतिपत्त्यर्थमिति । इहापि कस्मान्न तदर्थं पाठः ? उच्यते - प्रज्ञापनाध्ययनमुपाङ्गत्वाद् आर्षम्, तंत्र युक्तः सकलभेदोपन्यासः स्त्र्याद्यनुग्रैहाय, निर्युक्तयस्तु सूत्रार्थं पिण्डीकुर्वन्त्यः प्रवर्तन्त इत्यदोषः ।
20
-
ऐते बादराप्कायाः समासतो द्वेधा-पर्याप्तका अपर्याप्तकाश्च । तत्रा15 पर्याप्तका वर्णादीनसम्प्राप्ताः । पर्याप्तकास्तु वर्ण- गन्ध-रस - स्पर्शादेशैः सहस्राग्रशो भिद्यन्ते । ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यम् । संवृतयोनयश्चैते । सा च योनिः सचित्ता - ऽचित्त - मिश्रभेदात् त्रिधा । पुनश्च शीत-उष्ण- उभयभेदात् त्रिधैव । एवं गण्यमाना योनीनां सप्त लक्षा भवन्ति । प्ररूपणानन्तरं परिमाणद्वारमाह
जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते ।
सेसा तिन्नि विरासी वीसं लोगा असंखेज्जा ॥ १०९ ॥ दा० ॥
१. ० कापातो कपुस्तकाद्विना । २. ०स्थितो जल० ग । ३. हरतनुश० ग । ४. से कि तं बादरआउकाइया ? बादरआउकाइया अणेगविहा पन्नत्ता, तंजहा - उस्सा हिमए महिया करए हरतणुए सुद्धोदए सीतोदए उसिणोदए खारोदए खट्टोदए अंबिलोदए लवणोदए वारुणोदए खीरोदए घओदए खोतोदए रसोदए, जे यावन्ने तहप्परगारा । (प्रज्ञा० प० २८ सू० १६) ५. ० आम्ल० क । ६. शेषास्तु ख ग च । ७. किमनर्थो० च । ८. पाठ इति उच्यते ख च । ९. तत्र च युक्तः ख । १०. ०ग्रहार्थम् ख । ११. सम्पिण्डीकु० ख । १२. त एते बा० कप्रतिमृते । १३. भवन्तीति च ।