________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशक :
I
गतः पृथिव्युद्देशकः । साम्प्रतमप्कायोद्देशकः समारभ्यते । तस्य चायमभिसम्बन्धः–इहानन्तरोद्देशके पृथ्वीकायजीवाः प्रतिपादिताः, तद्वधे बन्धो विरतिश्च, साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं तद्वधे बन्धो विरतिश्च प्रतिपाद्यते। अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि । तत्र नामनिष्पन्ने निक्षेपे अप्कायोद्देशकः । तत्र पृथिवीकायजीवस्वरूपसमधिगतये 5 यानि नव निक्षेपादीनि द्वाराण्युक्तानि अप्कायेऽपि तान्येव समानतयाऽतिदेष्टुकामः कानिचिद् विशेषाभिधित्सयोद्धर्तुकामश्च नियुक्तिकारो गाथामाहआउस्स वि दाराइं ताइं जाई हवंत पुढी । णाणत्ती उं विहाणे परिमाणुवभोग सत्थे य ॥१०६॥
आउस्सेत्यादि । अप्कायैस्यापि तान्येव द्वाराणि भवन्ति यानि पृथिव्या: 10 प्रतिपादितानीति । नानात्वं भेदरूपं विधान परिमाण - उपभोग-शस्त्रविषयं द्रष्टव्यम् । चशब्दाद् लक्षणविषयं च । तुशब्दोऽवधारणार्थः, एतद्गतमेव नानात्वम्, नान्यगतमिति ॥ १०६ ॥ । तत्र विधानं प्ररूपणा, तद्गतं नानात्वं दर्शयितुमाह
८३
दुविहाँ य आउजीवा सुहुमा तह बायरा य लोयम्मि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥१०७॥ दुविहायेत्यादि । स्पष्ट || १०७॥ तत्र पञ्च बादरविधानानि दर्शयितुमाहसुद्धोदय उस्सा हिमे य महिया यहरतणू चेव 1 बायर आउविहाणा पंचविहा वण्णिया एए ॥। १०८ ।। दारं ॥ सुद्धोदयेत्यादि । शुद्धोदकं तडाग- समुद्र - नदी - हूदा-ऽवटादिगतमव- 20
१. प्रारभ्यते ख ग च । २. अस्य ग । ३. तद्वधो ख । ४. ०ते । इत्यनेन घ च । ५. ० समभिगतये ख । ६. ०या निर्देष्टुकाम: च । ७. ति छ । ८. जायं ख ज झ । ९. य ख । १०. ०यस्य ता० ग । ११. ०त्वं विभेदरूपं च ०त्वं भेदो विधान० ग । १२. ०णार्थे एत० च । १३. ०हा आउज्जीवा क ठ, ०हा इहाऽऽउजीवा ख । १४. पंचविहा पुण बायर० ञ । १५. दुविहेत्यादि ख । १६. ओसा ख ज झ ।
15