________________
८१
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाता भवंति ।
___ एत्थ सत्थेत्यादि । अत्र पृथ्वीकाये शस्त्रं द्रव्य-भावभिन्नम् । तत्र द्रव्यशस्त्रं स्वकाय-परकाय-उभयरूपम् । भावशस्त्रं त्वसंयमो दुःप्रणिहितमनोवाक्-कायलक्षणः । एतद् द्विविधमपि शस्त्रं समारभमाणस्य इत्येते खनन- 5 कृष्याद्यात्मकाः समारम्भा बन्धहेतुत्वेन अपरिज्ञाताः अविदिता भवन्ति । एतद्विपरीतस्य परिज्ञाता भवन्तीति दर्शयितुमाह
___ एत्थेत्यादि । अत्र पृथिवीकाये द्विविधमपि शस्त्रम् असमारभमाणस्य अव्यापारयत इत्येते प्रागुक्ताः कर्मसमारम्भाः परिज्ञाता: विदिता भवन्ति । अनेन च विरत्यधिकारः प्रतिपादितो भवतीति तामेव विरतिं स्वनामग्राहमाह- 10 __ [सू०१७] तं परिणाय मेहावी व सयं पुढविसत्थं समारभेज्जा, णेवऽण्णेहिं पुढविसत्थं समारभावेज्जा, णेवऽण्णे पुढविसत्थं समारभंते समणुजाणेज्जा ।
तमित्यादि । तं पृथिवीकायसमारम्भे बन्धं परिज्ञाय असमारम्भे चाऽबन्धमिति मेधावी कुशलः एतत् कुर्यादिति दर्शयति नैव पृथिवीशस्त्रं 15 द्रव्य-भावभिन्नं समारभेत, नापि तद्विषयोऽन्यः समारम्भः कारयितव्यः, न चान्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् । एवं मनो-वाक्-कायकर्मभिरतीताऽनागतकालयोरप्यायोजनीयम् । ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते, न शेष इति दर्शयन्नुपसञ्जिहीर्षुराह
[सू०१८ ] जस्सेते पुढविकम्मसमारंभा परिण्णाता 20 भवंति से हु मुणी परिणायकम्मे त्ति बेमि ।
जस्सेत्यादि । यस्य विदितपृथ्वीजीववेदनास्वरूपस्य एते पृथ्वीविषयाः
१. ०ये द्विविधमपि शस्त्रं ख । २. ०वशस्त्रम् । क । ३. भवन्तीति० । घ ङ च । ४. ०यादिति । एवं ख ङ च । ५. ०रनागता-ऽतीतकाल० क घ ङ। ६. ०यमिति । तत० ख च ।