SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७९ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः पृथ्वीकायसमारम्भेण च पृथिव्येव शस्त्रं स्वकायादेः पृथिव्यां वा शस्त्रं हलकुद्दालादि तत् समारभते, पृथिवीशस्त्रं समारभमाणश्चान्याननेकरूपान् प्राणिनः द्वीन्द्रियादीन् विविधं हिनस्तीति । स्यादारेका-ये हि न पश्यन्ति न शृण्वन्ति न जिघ्रन्ति न गच्छन्ति कथं पुनस्ते वेदनामनुभवन्तीति ग्रहीतव्यम् ? अमुष्यार्थस्य प्रसिद्धये दृष्टान्तमाह [सू०१५] से बेमि-अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे, अप्पेगे पादमब्भे २, अप्पेगे गुप्फमब्भे २, अप्पेगे जंघमब्भे २, अप्पेगे जाणुमब्भे २, अप्पेगे ऊरुमब्भे २, अप्पेगे कडिमब्भे २, अप्पेगेणाभिमब्भे २, अप्पेगे उदरमब्भे २, अप्पेगेपासमब्भे २, अप्पेगे पिट्ठिमब्भे २, अप्पेगे उरमब्भे २ अप्पेगे हिययमब्भे २, अप्पेगे थणमब्भे २, अप्पेगे खंधमब्भे २, अप्पेगे बाहुमब्भे २, अप्पेगे हत्थमब्भे २, अप्पेगे अंगुलिमब्भे २, अप्पेगे णहमब्भे २, अप्पेगे गीवमब्भे २, अप्पेगे हणुमब्भे २, अप्पेगे हो?मब्भे २, अप्पेगे दंतमब्भे २, अप्पेगे जिब्भमब्भे २, अप्पेगे तालुमब्भे २, अप्पेगे गलमब्भे २, अप्पेगे गंडमब्भे २, अप्पेगे कण्णमब्भे २, अप्पेगेणासमब्भे २, अप्पेगे अच्छिमब्भे २, अप्पेगे भमुहमब्भे २, अप्पेगे णिडालमब्भे २, अप्पेगे सीसमब्भे २, अप्पेगे संपमारए, अप्पेगे उद्दवए। से बेमीत्यादि सोऽहं पृष्टो भवता पृथ्वीकायवेदनां ब्रवीमि । अथवा से 20 इति तच्छब्दार्थे वर्तते, यत् त्वया पृष्टस्तदहं ब्रवीमि । अपिशब्दः यथानामशब्दार्थे, यथा नाम कश्चिज्जात्यन्धो बधिरो मूक: कुष्ठी पङ्गः अनभिनिर्वृत्तपाण्याद्य १. पृथिवीकर्मसमा० ख घ च । २. ०थिव्या वा घ । ३. ०कुर्दाला० च । * अत्र २ अङ्केन 'अप्पेगे पादमच्छे' इति ज्ञेयम् । एवमग्रेऽपि सर्वत्रास्मिन् सूत्रेऽवगन्तव्यम् ।। ४. यदि वा ख घ ङ च । 5
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy