________________
७८
शीलाचार्यविरचितविवरणविभूपिने आचाराङ्गसूत्रे दर्शयति-श्रुत्वा अवगम्य साक्षाद् भगवतो-ऽनगाराणां वा समीपे । ततः इह मनुष्यजन्मनि एकेषां प्रतिबुद्धतत्त्वानां साधूनां ज्ञातं भवतीति । ___ [मू०१४] से तं संबुज्झमाणे आयाणीयं समुट्ठाए
सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति–एस 5 खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए ।
इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहि पुढविकम्मसमारंभेणं पुढविसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।।
यद् ज्ञातं भवति तद् दर्शयितुमाह-एसेत्यादि । य एष पृथ्वीशस्त्र10 समारम्भः, खलुः अवधारणे, कारणे कार्योपचारं कृत्वा नड्वलोदक
पादरोगेन्यायेनैष एव ग्रन्थः अष्टप्रकारकर्मबन्धः। तथैष एव पृथ्वीसमारम्भो मोहहेतुत्वाद् मोहः कर्मबन्धविशेषो दर्शन-चारित्रभेदोऽष्टाविंशतिविधः । तथेष एव मरणहेतुत्वाद मार: आयुष्कक्षयलक्षणः । तथैष एव नरकहेतुत्वाद् नरकः
सीमन्तादि भागः, अनेन चासातावेदनीयमुपात्तं भवति । कथं पुनरेक15 प्राणिव्यापादनप्रवृत्तावष्टविधकर्मबन्धं करोति ? इति उच्यते-मार्यमाणजन्तुज्ञानावरोधित्वाद् ज्ञानावरणीयं बध्नाति, एवमन्यत्राप्यायोजनीयमिति ।
अन्यदपि तेषां ज्ञातं भवतीति दर्शयितुमाह-इच्चत्थमित्यादि । इत्येवमर्थम् आहारभूषणोपकरणार्थं तथा परिवन्दन-मानन-पूजनार्थं दुःखप्रतिघातहेतुं च
गृद्धः मूर्छितः लोकः प्राणिगणः । एवंविधेऽप्यतिदुरितनिचयविणकफले 20 पृथ्वीकायसमारम्भेऽज्ञानवशाद् मूर्छितस्त्वेतद् विधत्त इति दर्शयति- यद् यस्माद्
इमं पृथ्वीकायं विरूपरूपैः शस्त्रेः पृथ्वीकायं समारभमाणो हिनस्ति,
१. ०दकं पा० कसंज्ञकादर्शन विना । २. ०ग इति न्या० घ ङ च । ३. एव च म० ख। ४. ०ष्ककर्मक्षय० ग । ५. सीमन्तकादि० ग घ ङ च । ६. दिभूभा० ख घ। ७. सातवे० ख । ८. ०पूजार्थं च । ९. पृथिवीकर्म समा० क-खप्रती ऋतेऽन्यत्र ।