SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः [सू०१३ ] तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदण - माणण- पूयणाए जातीमरण-मोयणाए दुक्खपडिघातहेउं से सयमेव पुढविसत्थं समारंभति अण्णेहिं वा पुढविसत्थं समारंभावेति अण्णे वा पुढविसत्थं समारंभंते समणुजाणति । तं से अहिताए, तं से अबोही । 5 ७७ तत्थेत्यादि । तत्र पृथिवीकायसमारम्भे खलुशब्दः वाक्यालङ्कारे भगवता श्रीवर्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति । इदमुक्तं भवति— भगवतेदमाख्यातं यथा ऐभिः वक्ष्यमाणैः कारणैः कृत-कारिता - ऽनुमतिभिः सुखैषिणः पृथ्वीकायं समारभन्ते तानि चामूनि - अस्यैव जीवितस्य परिपेलवस्य परिवन्दन- मानन- - पूँजनार्थं तथा जाति-मरण-मोचनार्थं दुःखप्रतिघातहेतुं च सुखलिप्सुर्दुःखद्विट् स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथ्वीशस्त्रं समारम्भयति, पृथ्वीशस्त्रं समारभमाणानन्यांश्च स एव समनुजानीते। एवमतीता - ऽनागताभ्यां मनो-वाक्- कायकर्मभिरायोजनीयम् । 10 15 तदेवं प्रवृत्तमतेर्यद् भवति तद् दर्शयितुमाह - तं से अहियाए तं से अबोहीए, तत् पृथिवीकायसमारम्भणं से तस्य कृत-कारिता - ऽनुमतिभिः पृथ्वीशस्त्रं समारभमाणस्यागामिनि कालेऽहिताय भवति, तदेव चाबोधिलाभायेति न हि प्राणिगणोपमर्दनप्रवृत्तानामणीयसाऽपि हितेना - ऽऽयैत्यां योगो भवतीत्युक्तं भवति । यः पुनर्भगवतः सकाशात् तच्छिष्यानगारेभ्यो वा विज्ञाय पृथ्वीसमारम्भं 20 पापात्मकं भावयति स एवं मन्यत इत्याह-से त्तमित्यादि । सः ज्ञातपृथ्वीजीवत्वेन विदितपरमार्थः पृथ्वीशस्त्र - समारम्भमहितं सम्यगवबुध्यमानः आदानीयं ग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय अभ्युपगम्य, केन प्रत्ययेन ? इति १. एभिः का० ख । २. ०तव्यस्य ख ०तस्य पेल० क । ३. ०पूजार्थं क । ४. ० यत्या घ । ५ विभावयति ख । ६. से तमि० ख घ ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy