________________
७६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तत्र लौकिकी स्नुषा-सुभटादेः श्वशुर-सङ्ग्रामविषया, लोकोत्तरा सप्तदशप्रकार: संयमः, तदुक्तम्-लज्जा दया संजम बंभचेर् ]मित्यादि, लज्जमानाः संयमानुष्ठानपराः, यदि वा पृथिवीकायसमारम्भरूपादसंयमानुष्ठाद् लज्जमानाः । पृथग्
इति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च । अतस्तान् लज्जमानान् पश्य इत्यनेन 5 शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति ।
कुतीथिकास्त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह-अणगारा इत्यादि । न विद्यतेऽगारं गृहमेषामित्यनगाराः यतयः स्मो वयम् इत्येवं प्रकर्षण वदन्तः प्रवदन्त इति । एके शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः
क्षपितकषाया-ऽज्ञानतिमिरा इति एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति यथा 10 कश्चिदत्यन्तशुचिर्बोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय
पुनः कर्मकरवाक्यात् चर्मा-ऽस्थि-पिशित-स्नाय्वादेर्यथास्वमुपयोगार्थं सङ्ग्रहं कारितवान् । तथा च तेन शुच्यभिमानमुद्वहताऽपि किं तस्य परित्यक्तम् ? एवमेतेऽपि शाक्यादयोऽनगारवादमुद्वहन्ति, न चानगारगुणेषु मनागपि वर्तन्ते, न
च गृहस्थचर्यां मनागप्यतिलवयन्तीति दर्शयति-यद् यस्माद् इमम् इति 15 सर्वजनप्रत्यक्षं पृथिवीकायं विरूपरूपैः नानाप्रकारैः शस्त्रैः हल-कुद्दाल
खनित्रादिभिः पृथिव्या श्रयं कर्म क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथ्वीकर्मसमारम्भेण पृथ्वीशस्त्रं समारभमाणो व्यापारयन् पृथिवीकायं नानाविधैः शस्त्रैर्व्यापादयन् अनेकरूपान् तदाश्रितान् उदक-वनस्पत्यादीन् विविधं हिनस्ति नानाविधैरुपायैर्व्यापाद यतीत्यर्थः । एवं शाक्यादी नां 20 पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृत-कारिता
ऽनुमतिभिर्मनो-वाक्-कायलक्षणा प्रवृत्ति दर्शयितुमाह
१. संजमो ग घ । २. भवति घ ङ च । ३. मेषां ते अन० क-गप्रती ऋते । ४. "बोद्रः इति मूर्खः'' जै०वि०प० । ५. ०पभोगा० च । ६. तस्य त्यक्तम् ङ। ७. प्रवर्तन्ते ग घ ङ । ८. वा घ च । ९. ०लक-ख० घ ङ च । १०. ०श्रयकर्म घ-ङप्रतिभ्यां विना । ११. पृथ्वीकायस० ग च, अत आरभ्यागे कपुस्तकं विमुच्य सर्वेष्वप्यादर्शेषु प्रायोऽसमानतया पृथ्वी स्थाने पृथिवी, पृथिवीस्थाने च पृथ्वी इति बहुधा समुपलभ्यते । १२. ०यन्तीत्यर्थः क ख । १३. ०नां पृथिवीजन्तु० ख । १४. सम्प्रति क-गप्रती ऋते ।