SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतम्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः 5.7 इति कृत्वा व्यथितं भीतमिति । तत्थ तत्थेति तेषु तेष कृषि-खननगृहकरणादिपु पृथग् विभिन्नेषु कार्येपूत्पन्नेषु पश्य इति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदर्श्यते । सिद्धान्तशैल्या एकादेशेऽपि प्रकृते बह्वादेशो भवतीति आतुराः विषय-कपायादिभिः अस्मिन् पृथिवीकाये विषयभूते सामर्थ्यात् पृथिवीकायं परितापयन्ति परि समन्तात् तापयन्ति पीडयन्तीत्यर्थः । 5 बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदि वा लोकशब्दः प्रत्येकमभिसम्बध्यते कश्चिल्लोको विषयकषायादिभिरातः अपरस्तु कायजीर्णः कश्चिद् दुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखाप्तयेऽस्मिन् पृथिवीकायलोके विपयभूते पृथिवीकार्य नानाविधैरुपायैः परितापयन्ति पीडयन्तीति सूत्रार्थः । ननु चैकदेवताविशेषाव- 10 स्थिता पृथिवीति शक्यं प्रतिपत्तुम्, न पुनरसङ्ख्येयजीवसङ्घातरूपेति, एतत् परिहर्तुकाम आह [सू०११] संति पाणा पुढो सिता । संतीत्यादि । सन्ति विद्यन्ते प्राणाः सत्त्वाः पृथक् पृथग्भावेन अङ्गलासङ्ख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः, सिता वा सम्बद्धा इत्यर्थः ।। अनेनेतत् कथयति-नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीका यात्मिकेति । तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह [ सू०१२] लज्जमाणा पुढो पास । अणगारा मो त्ति एगे पवयमाणा, जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमा 20 रंभेणं पुढविसत्थं समारंभमाणो अणेगरूवे पाणे विहिंसति। लज्जमाणा पुढो पास त्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च । ५. प्राकृत ग ङ च । २. परि: टु च । ३. ०तः कश्चित् तु कायपरिजीर्णः अपरो च:सम्बोध: तु यदु च । 3. ०र्णभेदा देहा० च । ५. ०न्तीत्यर्थः । घ । ६. ०श्रिता वा मि० ख । ७. ०यात्मकति च । ८. द्विधा व ङ च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy