________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
यदि वा ज्ञानावरणीयादिना शुभ - ऽशुभेनाष्टप्रकारेण कर्मणाऽऽर्तः । कः पुनरेवंविधः ? इत्यत आह-लोकयतीति लोकः एक-द्वि-त्रि-चतुः-पञ्चेन्द्रियजीवराशिरित्यर्थः । अत्र लोकशब्दस्य नाम - स्थापना - द्रव्य-क्षेत्र - कालभव-भाव-पर्यायभेदादष्टधा निक्षेपं प्रदर्श्याप्रशस्तभावोदयवर्तिना लोकेनेहा5 धिकारो वाच्यः । यस्माद् यावान् आर्तः सर्वोऽपि परिद्यून इति । परिद्यूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्त भावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति । स च द्विधा द्रव्य - भावभेदात् । तत्र सचित्तद्रव्यपरिद्यूनो जीर्णशरीरं: स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिद्यूनो जीर्णपटादिः । भावपरिद्यून औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः । कथं विकलः ? अनन्त10 गुणपरिहाण्या, तथाहि - पञ्च- चतु:-त्रि-द्वि-एकेन्द्रियाः क्रमशो ज्ञानविकलाः । तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदा अपर्याप्तकाः प्रथमसमयोत्पन्नाः, उक्तं च
15
७४
सर्वनिकृष्ट जीवस्य दृष्ट उपयोग एव वीरेण । सूक्ष्मनिगोदापर्याप्तानां स भवति विज्ञेयः ॥ [
]
तस्मात् प्रभृति ज्ञानविवृद्धिर्दृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रिय-वाड्-मनो- दृग्भिः ॥ [
]
स च विषय-कषायार्तः प्रशस्तज्ञानद्यूनः किमवस्थो भवति ? इति दर्शयति- दुस्सम्बोध इति, दुःखेन सम्बोध्यते धर्मचरणे प्रतिपत्ति कार्यत इति दुस्सम्बोधो मेतार्यवदिति । यदि वा दुस्सम्बोधः यो बोधयितुमशक्यः ब्रह्मदत्तर्वैदिति । किमित्येवं ? यतः अवियाणए त्ति विशिष्टावबोधरहित: । स 20 चैवंविधः किं विदध्यात् ? इत्याह-अस्मिन् पृथिवीकायलोके प्रव्यथिते प्रकर्षेण व्यथिते, सर्वस्यारम्भस्य तदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविध शस्त्रोद्भीते वा । व्यथ भय-चलनयोः [पा०धा०
१. ० रणादिना ग । २. इत्याह ख, इत्यत्राह ग । ३. अथ ख । ४. ०पने क्षुण्णत्वाद् अनादृत्य द्रव्य - क्षेत्र० ख । ५. परिदून क, ग घ प्रत्योः पाठभङ्गः । ६. ०रीरस्थ० ख घ ङ । ७. जीर्णः प० ख च । ८. भावद्यून घ ङ । ९ तथाहि इति न विद्यते ख-गसंज्ञकादर्शयोः । १०. ०न्ना इति उक्तं कप्रति विना । ११. " तस्मात् प्रभृति इति प्रथमसमयमादि कृत्वा" जै०वि० प० । १२. ०रणप्रति० ख । १३. प्रभृ( वृ? ) त्ति क । १४. ०वत् कि० कप्रतेर्विना । १५. ० शस्त्राद्धीते क - ङपुस्तकाभ्यामृते ।