________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः शाक्यादय इति ॥ गतो नामनिष्पन्नो निक्षेपः । अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यते, तच्चेदम्
[ सू०१०] अट्टे लोए परिजुण्णे दुस्संबोधे अविजाणए । अस्सि लोए पव्वहिए तत्थ तत्थ पुढो पास आतुरा परितावेंति ।
__ अट्टेत्यादि । अस्य चायमभिसम्बन्धः-इहानन्तरसूत्रे परिज्ञातकर्मा 5 मुनिर्भवतीत्युक्तम्, यस्त्वपरिज्ञातकर्मा स भावार्तो भवतीति । तथाऽऽदिसूत्रेण सम्बन्धः, सुधर्मस्वामी जम्बूनाम्ने इदमाचष्टे-श्रुतं मया, किं तत् श्रुतम् ? पूर्वोद्देशकार्थं प्रदर्थेदमपीति अट्टेत्यादि । परम्परसम्बन्धस्तु इहमेगेसिं नो सन्ना भवतीत्युक्तम्, कथं पुनः संज्ञा न भवतीति ? आर्तत्वात्, तदाह-अट्टेत्यादि ।
___ आर्को नामादिश्चतुर्धा । नाम-स्थापने क्षुण्णे । ज्ञशरीर-भव्यशरीर- 10 तद्व्यतिरिक्तो नोआगमतो द्रव्यातः शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः । भावार्तस्तु द्विधा-आगमतो नोआगमतश्च । तत्रागमतो ज्ञाता आर्तपदार्थज्ञः तत्र चोपयुक्तः । नोआगमतस्तु औदयिकभाववर्ती राग-द्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावात इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाङ्क्षत्वाद् हिता-हितविचार- 15 शून्यमना भावार्तः कर्मोपचिनोति, यत उक्तम्
सोइंदियवसगे णं भंते ! जीवे किं बंधइ ? किं चिणाइ ? किं उवचिणाइ ? गोयमा ! अट्ठ कम्मपयडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, जाव अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारमणुपरियट्टइ ।[ ]
एवं स्पर्शनादिष्वप्यायोजनीयम् । एवं क्रोध-मान-माया-लोभ-दर्शन- 20 मोहनीय-चारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च
राग-द्दोस-कसाएहिं इंदिएहिं य पंचहिं । दुहा वा मोहणिज्जेण अट्टा संसारिणो जिया ॥ [ ]
१. ०ति । आदिसू० च । २. ०त्, आह ख । ३. ०र-व्यति० कपुस्कादृतेऽन्यत्र । ४. ०र्तश्च च । ५. ०त औद० च । ६. ०षपरिगृ० ग ङ, ०षपरिग्रहगृ० च । ७. सङ्करनि० घ । ८. ०काक्षित्वाद् घ ङ च । ९. यदुक्तम् ङ। १०. ०वसट्टे ख घ ङ च, ०वसद्दे ग । ११. रंतं सं० ख ।