________________
७२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अन्यानपि अप्काय-द्वीन्द्रियादीन् समारभते व्यापादयति, उदुम्बरफलभक्षणप्रवृत्तः तत्फलान्त:प्रविष्टत्रसजन्तुभक्षणवदिति । तथा अणियाए य नियाए त्ति अकारणेन कारणेन च, यदि वा असङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून्
समारभते तदारम्भवांश्च दृश्यान् दर्दुरादीन् अदृश्यान् पनकादीन् समारभते 5 व्यापादयतीत्यर्थः ॥ एतदेव स्पष्टतरमाह
पुंढवी समारभंता हणंति तन्निस्सिते बहू जीवे । सुहुमे य बायरे या पज्जत्ते वा अपज्जत्ते ॥१०३॥ दारं ॥
पुंढवीत्यादि । स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात् तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाह10 एवं वियाणिऊणं पुढवीओ निक्खिवंति जे दंडं ।
तिविहेण सव्वकालं मणेण वायाए काएणं ॥१०४॥ ___ एवमित्यादि । एवम् इत्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्डं पृथिवीसमारम्भाद् व्युपरमन्ति ते
ईदृक्षा अनगारा भवन्तीत्युत्तरगाथायां वक्ष्यति । त्रिविधेन इति कृत-कारिता15 ऽनुमतिभिः सर्वकालं यावज्जीवमपि मनसा वाचा कायेनेति ॥ अनगारभवने उक्तशेषमाह
गुत्ता गुत्तीहिं सव्वाहिं, समिया समिईहिं संजया । जयमाणगा सुविहिया एरिसिया होंति अणगारा ॥१०५॥
गुत्ता इत्यादि । तिसृभिः मनो-वाक्-कायगुप्तिभिर्गुप्ताः, तथा पञ्चभिः 20 ईर्यासमित्यादिभिः समिताः, सम्यग् उत्थान-शयन-चङ्क्रमणादिक्रियासु यता:
संयताः, यतमानाः सर्वत्र प्रयत्नकारिणः, शोभनं विहितं सम्यग्दर्शनाद्यनुष्ठानं येणं ते तथा, ईदृक्षा अनगारा भवन्ति, न तु पूर्वोक्तगुणाः पृथिवीकायसमारम्भिण:
१. क-खसंज्ञकादर्शयोर्न वर्तते त्ति इति । २. पुढवि क-छप्रती विना । ३. ०स्सिए य बहुजीवे ठ। ४. वा छ झ । ५. या क-छपुस्तके विना । ६. ०ढविमित्या० कप्रत्या ऋते । ७. ०वीए नि० छजप्रती ऋते। ८. ०न् तद्वधबन्धं ग च । ९. ०द्वधबन्धं घ । १०. ०त्तरार्धेन वक्ष्य० ख । ११. ०कालमिति या० ख । १२. ०रिसगा ञ । १३. ०मक्रिया० च । १४. ०था, ते ईदृ० क-घ-चप्रतीविना ।