SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः ७१ इह ये ये पृथिंवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न वर्तन्ते गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भं निगमनमाह अणगारवाइणो पुढविहिंसगा णिग्गुणा अगारिसमा । णिद्दोस त्तिय मइला विरइदुगंछाए मइलतरा ॥१००॥ अणेत्यादि । अनगारवादिनः वयं यतय इति वदनशीलाः पृथिवीकाय - 5 विहिंसकाः सन्तो निर्गुणाः, यतोऽतः अगारिसमा गृहस्थतुल्या भवन्ति । अभ्युच्चयमाह—सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात् मलिना: कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरते: जुगुप्सया निन्दया मलिनतरा भवन्ति । अनया च साधुनिन्दयाऽनन्त - 10 संसारित्वं प्रदर्शितं भवतीति । एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे निर्युक्तिकृताऽभिहितम्, तस्य स्वयमेवोपात्तत्वेन तद्व्याख्यानस्य न्याय्यत्वात् । तच्चेदं सूत्रम्-लज्जमाणा पुढो पास अणगारा मो त्ति एगे पवदमाणेत्यादि । अयं च वधः कृत-कारिता - ऽनुमतिभिर्भवतीति तदर्थमाह— केई सयं वहंती केई अन्नेहि तुं वधावेंति । ई अणुमन्नंती पुढविक्कायं वहेमाणा ॥१०१॥ के इत्यादि । स्पष्टा ॥ तद्वधेऽन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाह जो पुढवि समारभए अन्ने वि हुँ सो समारभइ काए । अणियाए अ र्णियाए दिस्से य तहा अदिस्से य ॥१०२॥ जो इत्यादि । यः पृथिवीकायं समारभते व्यापादयति तथा स १. ०वीविहिं० घ ङ । २. न प्रव० च । ३. ० हिंसिगा क । ४. ०जनेनाश्रि० च । ५. ०वति क । ६. ०ति एतद० ख । ७. उ (ऊ) ख ज झ, रू ( ऊ ) वहाणत्ति (वन्ति ) छ, उं ञ। ८. ०मारंभति ज ठ । ९. य ठ । 15 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy