________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः उत्पादयन्तीति । अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति । अधुना शस्त्रद्वारम् । शस्यतेऽनेनेति शस्त्रम्, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च । द्रव्यशस्त्रमपि समास-विभागभेदाद् द्विधैव । तत्र समासद्रव्यशस्त्रप्रतिपादनायाहहलकुलियविसकुद्दा( दा)ला अलित्तमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्थं ॥१५॥
हलेत्यादि । तत्र हल-कुलिक-विष-कुद्दाला-ऽलित्रक-मृगशृङ्ग-काष्ठाऽग्नि-उच्चार-प्रश्रवणादिकमेतत् समासतः सङ्कपतः द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाह
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥९६॥ दारं ॥
किंचीत्यादि । किञ्चित् स्वकायशस्त्रं पृथिव्येव पृथिव्याः । किञ्चित् परकायशस्त्रमुदकादि । तदुभयं किञ्चिद् इति भूदकं मिलितं भुवः । एतच्च सर्वमपि द्रव्यशस्त्रम् । भावे पुनः असंयमः दुष्प्रयुक्ता मनो-वाक्-कायाः शस्त्रमिति । वेदनाद्वारमाह
पायच्छेयण भेयण जंघोरू तह य अंगमंगेसु । . जह होंति नरा दुहिया पुढविक्काए तहा जाण ॥९७॥
पाएत्यादि । यथा पादादिकेष्वङ्ग-प्रत्यङ्गेषु छेदन-भेदनादिकया क्रियया नरा दुःखिताः तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि पाद-शिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूंपा
१. तद् द्वि० क । २. द्विधा । तत्र क विना । ३. ०लियाविसकुद्दाललित्तमिग० ठ। ४. ०सकोद्दा( कुदा? )लयखणित्तमिग० ज । ५. ०लालित्तं मिग० छ, ०लालित्तमिग० ख ज झ। ६. ०कुर्दाला० ख ग, ०कुदाला० ङ। ७. ०नार्थया(मा?) ह घ । ८. किंची छ । ९. उ ख, अ छ ठ । १०. भुव इति । ए० ख ग घ ङ । ११. तहेव अंगुवंगेसु ख ठ, तहेव अंगवंगेसु ज झ, तहेव अंग० ब । १२. ०क्कायं तहा । क । १३. पाय इत्या० ख । १४. ०भेदादि० ङ च । १५. ०काये वेद० ख । १६. ०पि जानीहि वेदनाम् क । १७. सम्भवन्ति ख । १८. ०रूपवे० क ।