SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे बायरपुढविक्काइयपज्जत्ता अन्नमन्नमोगाढा । सेसा ओगाहंती सुहुमा पुण सव्वलोयम्मि ॥९१। दारं ॥ . बायरेत्यादि । बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढस्तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति 5 शेषास्तु अपर्याप्ताः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तका वगाढाकाशप्रदेशावगाढाः । सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति । उपभोगद्वारमाह चंकमणे य ट्ठाणे णिसीयण तुयट्टणे ये कयकरणे । उच्चारे पासवणे उवकरणाणं च निक्खिवणे ॥१२॥ 10 आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडाणं पि य करणे उवभोगविही मणुस्साणं ॥१३॥ चंकमणेत्यादि । आलेवणेत्यादि । चङ्क्रमण-ऊर्द्धस्थान-निषीदनत्वग्वर्तन-कृतकपुत्रककरण-उच्चार-प्रश्रवण-उपकरणनिक्षेप-आलेपन-प्रहरण भूषण-क्रय-विक्रय-कृषीकरण-भण्डकघटनादिषूपभोगविधिर्मनुष्याणां 15 पृथिवीकायेन भवतीति । यद्येवं ततः किम् ? इति अत आह एएहिं कारणेहिं हिंसंती पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥९४॥ दारं ॥ एएहीत्यादि । एभिश्चक्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति । किमर्थम् ? इति दर्शयति-सातं सुखमात्मनोऽन्विषन्तः परदुःखा20 न्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति । परस्य पृथिव्याश्रितजन्तुराशेः दुःखम् असातलक्षणं तद् उदीरयन्ति १. ०ढवीकातिय० ज । २. नास्तीयं गाथा झसंज्ञकादर्शे । ३. य करणे य । छ । ४. तु ख ज झ , पि ज । ५. ०णंकियकरणे क । ६. ०घट्टना० घ ङ। ७. ०हिं वि हंसं० ज। ८. उईरंति ज । ९. ०एहिमित्या० ख घ । १०. ०नोऽन्वेषयन्तः क-गप्रती विना । ११. दुःखमजानाना: ख । १२. ०न्ति ईरयन्ती० ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy