SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [म० २१] एकविंशतितमस्थानकम् । [३] ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंत वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं एक्कवीसाए वाससहस्से हिं आहार समुप्पज्जति २ ७९ संतेगतिया भवसिद्धिया [ जीवा जे एक्कवीसाए भवग्गहण्णेहिं सिज्झिस्संति] जाव [सव्वदुक्खाणमंतं] करेस्संति ३||२१|| 5 15 [टी०] अथैकविंशतितमस्थानकम्, तत्र चत्वारि सूत्राणि स्थितिसूत्रैर्विना सुगमानि च. नवरं शबलं कर्बुरं चारित्रं यैः क्रियाविशेषैर्भवति ते शबलास्तद्योगात् साधवोऽपि ते एव, तत्र हस्तकर्म वेदविकारविशेषं कुर्वन्नुपलक्षणत्वात् कारयन् वा शबलो भवतीत्येकः १. एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिः प्रकारैः २, तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्च भुञ्जान: 10 ३, तथा आधाकर्म ४. सागारिकः स्थानदाता तत्पिण्डम् ५, औद्देशिकं क्रीतमाहृत्य दीयमानं भुञ्जानः, उपलक्षणत्वात् पामिच्चाऽऽच्छेद्याऽनिसृष्टग्रहणमपीह द्रष्टव्यमिति ६. यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, [ अभीक्ष्णम् ?] अभीक्ष्णं प्रत्याख्यायाऽशनादि भुञ्जानः ७, अन्तः षण्णां मासानामेकतो गणाद् गणमन्यं सङ्क्रामन् ८, अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन्, उदकलेपश्च नाभिप्रमाणजलावगाहनमिति ९, अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति भेदः १०, राजपिण्डं भुञ्जानः ११, आकुट्ट्या प्राणातिपातं कुर्वन्, उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्ट्या मृषावादं वदन् १३, अदत्तादानं गृह्णन् १४ आकुट्यैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकीं वा चेतयन्, कायोत्सर्गं स्वाध्यायभूमिं वा कुर्वन्नित्यर्थः १५, एवमाकुट्ट्या सस्निग्धसरजस्कायां पृथिव्यां चित्तवत्यां शिलायां लेष्टौ च, कोलावासे दारुणि, कोला 20 घुणाः तेषामावासः १६, अन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७, आकुट्ट्या मूलकन्दादि भुञ्जानः १८, अन्तः संवत्सरस्य दशोदकलेपान् कुर्वन् १९, तथाऽन्तः संवत्सरस्य दश मायास्थानानि च २० तथा अभीक्ष्णं पौनः पुण्येन शीतोदकलक्षणं यद्विकटं जलं तेन व्याघारितो व्याप्तो यः पाणिः हस्तः स तथा, तेनाशनादि प्रगृह्य भुञ्जानः शबलः इत्येकविंशतितमः २१ । तथा निवृत्तिबादरस्य 25
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy