________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसुत्रे
समाधिरसमाधिस्तस्याः स्थानानि आश्रया भेदा वा असमाधिस्थानानि । तत्र दवदवचारि त्ति यो हि द्रुतं द्रुतं चरति गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते. चापीत्युत्तरासमाधिस्थानापेक्षया समुच्चयार्थः भवतीति प्रसिद्धम् स च द्रुतं द्रुतं संयमा-ऽऽत्मनिरपेक्षो व्रजन्नात्मानं प्रपतनादिभिरसमाधौ योजयति अन्यांश्च सत्त्वान् 5 घ्नन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्म्मणा परलोकेऽप्यात्मानमसमाधी योजयति, अतो द्रुतगन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम् एवमन्यत्रापि यथायोगमवसेयम् १, तथा अप्रमार्जितचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदन-त्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता अतिप्रमाणा शय्या वसतिरासनानि च पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, स च 10 अतिरिक्तायां शय्यायां घघशालादिरूपायामन्येऽपि कार्पटिकादय आवासयन्ति इति तैः सहाधिकरणसम्भवादात्म-परावसमाधौ योजयतीति एवमासनाधिक्येऽपि वाच्यमिति ४, तथा रात्निकपरिभाषी आचार्यादिपूज्यपुरुषपरिभवकारी, स चात्मानमन्यांश्चासमाधौ योजयत्येव ५. तथा स्थविरा आचार्यादिगुरवः. तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वो पहन्तीत्येवंशीलः स एव चेति 15 स्थविरोपघातिकः ६ तथा भूतानि एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः ७, तथा सञ्ज्वलतीति सज्वलनः प्रतिक्षणं रोषण: ८ तथा क्रोधनः सकृत क्रुद्धोऽत्यन्तक्रुद्धो भवति ९, तथा पृष्ठिमांसिकः पराङ्मुखस्य परस्यावर्णवादकारी १०, अभिक्खणं अभिक्खणं ओहारयित्त त्ति अभीक्ष्णमभीक्ष्णमवधारयिता शङ्कितस्याप्यर्थस्य निःशङ्कितस्य 'एवमेवायम्' इत्येवं वक्ता, अथवाऽवहारयिता परगुणानामपहारकारी, यथा अदासादिकमपि परं भणति - दासस्त्वं चौरस्त्वमित्यादि ११. तथाऽधिकरणानां कलहानां यन्त्रादीनां वोत्पादयिता १२. पोराणाणं ति पुरातनानां कलहानां क्षमित - व्यवशमितानां मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति १३, तथा सरजस्कपाणि-पादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ सङ्क्रामन्न पादौ प्रमार्ष्टि, अथवा
१. भवतीति जेर ।। २. ( निःशङ्किनस्येव ? ) ॥ ३. 'मयनं जे ||
20
७६
•