SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७१ [म्० १८] अष्टादशस्थानकम् | क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रक - व्यक्ता:, तेषाम्, तत्र क्षुद्रका वयसा श्रुतेन चाऽव्यक्ताः, वय ::- श्रुताभ्यां परिणताः, स्थानानि परिहारासेवाश्रयवस्तूनि । व्रतषट्कं रात्रिभोजनविरतिश्च, कायषट्कं पृथिवीकायादि. अकल्पः अकल्पनीयपिण्ड-शय्या-वस्त्र- पात्ररूपः पदार्थः, गृहिभाजनं स्थालादि, पर्यको मञ्चकादिः, निषद्या स्त्रिया सहाऽऽसनम्, स्नानं शरीरक्षालनम्, शोभावर्जनं प्रतीतम्। 5 तथा आचारस्य प्रथमाङ्गस्य सचूलिकाकस्य चूडासमन्वितस्य तस्य हि पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः, स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानाम्, यदाह नवबभचरमइओ अट्टारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥ [ आचाराङ्गनि० ११] ति । यच्च सचूलिकाकस्येति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थम्, न तु पदप्रमाणाभिधानार्थम्, यतोऽवाचि नन्दीटीकाकृता- अट्ठारसपयसहस्साणि पुण पढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं, विचित्तत्थाणि य सुत्ताणि गुरूवएसओ तेसिं अत्थो जाणिव्वा [ नन्दीटी० ]त्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत् पदम्, पदाग्रेणेति पदपरिमाणेनेति। तथा बंभि त्ति ब्राह्मी आदिदेवस्य भगवतो दुहिता, ब्राह्मी वा 15 संस्कृतादिभेदा वाणी, तामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः अतस्तस्या ब्राह्मया लिपे:, णमित्यलङ्कारे, लेखो लेखनम्, तस्य विधानं भेदो लेखविधानं प्रज्ञप्तम्, तद्यथा - बंभीत्यादि एतत्स्वरूपं च न दृष्टमिति न दर्शितम् । व्यक्तास्तु ये महाव्रतानि ४. कि पुनरस्याध्ययनतः पदतश्च परिमाणमित्यत आह- नवबभ.... वृ० - तत्राध्ययनतो नवब्रह्मचय्याभिधानाध्ययनात्मकोऽयं पदतोऽष्टादशपदसहस्रात्मकः वेद इति विदन्त्यस्माद्धयोपादेयपदार्थानिति वेदः क्षायोपशमिकभाववर्त्ययमाचार इति । सह पञ्चभिश्चाभिर्वर्तत इति सपञ्चचूडश्च भवति उक्तशेषानुवादिनी चूडा. तत्र प्रथमा पिंडसण सेज्जिरिया भासज्जाया य वत्थपाएसा उग्गहपडम त्ति सप्ताध्ययनात्मिका, द्वितीया सत्तसत्तिक्कया. तृतीया भावना चतुर्थी विमुक्तिः, पञ्चमी निशीथाध्ययनम्. बहुबहुयरओ पदग्गेणं ति तत्र चतुर्थोलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षपाद बहुः निशीथाख्यपञ्चमचूलिकाप्रक्षपाद बहुतरोऽनन्तगमपर्यायात्मकतया बहुतमश्च पदाग्रेण पदपरिमाणेन भवतीति ||११|| " इति शीलाचार्यविरचितायामाचाराङ्गटीकायां प्रथमेऽध्ययने प्रथमे उद्देशक || २. से किं तं आयारे... [सू० ८७ ] इति नन्दीसूत्रस्य हरिभद्रसूरिविरचितायां टीकायामेतदस्ति । जिनदासगणमहत्तरविरचितायां नन्दीसूत्रस्य चूर्णावपि एतादृशं वर्णनमस्ति || 10
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy