________________
द्वादशस्थानकम् ।
म० १२ प्रत्येकावग्रहश्चति द्विधा, तत्र यत् क्षेत्र वर्षाकल्पाद्यर्थं युगपद् व्यादिभिः साधुभिभिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिता: स प्रत्येकावग्रह इति. एवं चैतेष्ववग्रहेषु आकुट्ट्या अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृह्णन्तोऽनाभागेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभाग्याश्च, पार्श्वस्थादीना चावग्रह एव नास्ति तथापि यदि तत् क्षेत्र क्षुल्लकमन्यत्रैव 5 च संविग्ना निर्वहन्ति ततस्तत् क्षेत्रं परिहरन्त्येव, अथ पार्श्वस्थादिक्षेत्रं विस्तीर्ण सविनाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति सचित्तादि च गृह्णन्ति प्रायश्चित्तिनोऽपि न भवन्तीति. आह च
ममणुन्नमणुन्ने वा अदिंत अणाभव्व गिण्हमाणे वा । संभाग वीसुकरणं पृथक्करणमित्यर्थः इयरे य अलंभि पेल्लिंति ।। [निशीथभा० २१२४] 10 इतरान् पार्श्वस्थादीनित्यर्थः ।
तथा सन्निसिज्जा य त्ति सन्निषद्या आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि- संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्त्तनां कगेति शुद्धः. अथामनोज्ञ-पार्श्वस्थादि-साध्वी-गृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तम्, तथा निषद्यायामुपविष्ट: 15 सूत्रार्थों पृच्छति अतीचारान् वाऽऽलोचयति यदि तदा तथैवेति ।
तथा कहाए य पबंधणे त्ति कथा वादादिका पञ्चधा तस्याः प्रबन्धनं प्रबन्धन करण कथाप्रबन्धनम्, तत्र सम्भोगा-ऽसम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवन वा वाक्यन यत्तत्समर्थन स छल-जातिविरहितो भूतार्थान्वेषणपरा वादः, स एव छल-जाति-निग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा 20 दुषणमात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा १. “ममणुण्णमणुण्ण वा, अदितऽणाभव्वगेण्हमाणे वा । संभोग वीसु करणं, इतरे य अलंभे पल्लंति ।।२१२४॥ सभातिता जा अणाभव्वं गण्हति गहियं वा ण देति सो संभोगा तो वीसं पृथक क्रियते । असंभाइओ वि अणाहव्वं गण्हति, गहियं वा ण देति. जेसि सो संभोइओ ते तं विसंभोगं करेंति । इयरे त्ति पासत्थाती तसि त्थि उगहा. अणगह वि पासत्थाइयाण जाति खड्ग खत्त अण्णआय विग्गा सथरता पति तत्थ सचित्ताचिणिप्फण्ण। अह पासत्थादियाण बित्थिण्णं खत्तं, ते य ण देति. अण्णता य असंथरता. ताह संविग्गा पलंति, सचित्ताइयं च गेण्हता मुद्धा ।। २५२४।।" - इति निशीथ चूर्णी ।। २. अलंभे रोलिंति जे२ ।। ३-४. संनि जे० ।।