________________
४६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पार्श्वस्थादेरेतानि कुर्वंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति ।
तथा दायणा य त्ति दानम्, तत्र, सम्भोगिकः सम्भोगिकाय वस्त्रादिभिः शिष्यगणोपग्रहासमर्थे सम्भोगिकऽन्यसम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चति । 5 तथा निकाये य त्ति निकाचनं छन्दनं निमन्त्रणमित्यनर्थान्तरम्, तत्र शय्योपध्याहार: शिष्यगणप्रदानेन स्वाध्यायेन च सम्भोगिकः सम्भोगिकं निमन्त्रयन् शुद्धः, शेषं तथैव।
तथा अब्भुट्ठाणे त्ति यावरे त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगाऽसम्भागस्थानमित्यर्थः, तत्राभ्युत्थानं पार्श्वस्थादे : कुवंस्तथैवासम्भाग्य:.
उपलक्षणत्वाच्चाभ्युत्थानस्य किङ्करतां च प्राघूर्णक-ग्लानाद्यवस्थायां किं विश्रामणादि 10 करोमि' इत्येवंप्रश्नलक्षणां तथाऽभ्यासकरणं पार्श्वस्थादिधर्माच्च्युतस्य पुनस्तत्रैव
संस्थापनलक्षणम्. तथा अविभक्तिं च अपृथग्भावलक्षणां कुर्वन्नशुद्धोऽसम्भोग्यश्च. एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति ।।
तथा किड़कम्मस्स य करणे त्ति कृतिकर्म वन्दनकं तस्य करणं विधानम्, तद् विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः, तत्र चायं विधि: - यः साधुतिन 15 स्तब्धदेह उत्थानादि कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादि यच्छक्नोति तत् करोत्येवं चाशठप्रवृत्तिर्वन्दनकविधिरिति भावः ।।
तथा वेयावच्चकरणे इ य त्ति वैयावृत्यम् आहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये
सम्भागासम्भोगौ भवत इति । 20 तथा समोसरणं ति जिनस्नपन-रथानुयान-पटयात्रादि यत्र बहवः साधवो मिलन्ति
तत् समवसरणम्, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति. वसतिमाश्रित्य साधारणोऽसाधारणो वेति. अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके. तद्यथावर्षावग्रह ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति, एकै कश्चायं साधारणावग्रहः १ दायण जे२ ॥ २ नि:काये य त्ति नि:काचनं १ ॥ ३. संभोगिक: जसं२ ह२ मध्य एव वर्तत।। ४. पाश्वस्थत्वादिधर्माच्युतस्य ज२ । पार्श्वस्थादिधर्माच्युतस्य हे१.२ ॥ ५. संस्थानलक्षणम् ख० ज.२ है५ ॥ ६. सहायदानेन नास्ति ख० । ७. “वादिषु यत्र हे२ ॥