________________
४१
[म० ११]
एकादशस्थानकम् ।
कयसामाइए तृतीया, पोसहोववासनिरए चतुर्थी, राइभत्तपरिण्णाए पञ्चमी, सचित्तपरिण्णाए षष्ठी, दिया बंभयारी राओ परिमाणकडे सप्तमी, दिया विराओ वि बंभयारी असिणाणए यावि भवति वोसट्टकेस - रोम - नहे अष्टमी, आरंभपरिण्णाए पेसपरिण्णाए नवमी, उदिट्टभत्तवज्जए दशमी, समणभूए यावि भवइत्ति समणाउसो एकादशीति, क्वचित्तु आरम्भपरिज्ञात इति नवमी, 5 प्रेष्यारम्भपरिज्ञात इति दशमी, उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति ।
तथा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य एकादश एगविंसे त्ति एकविंशतियोजनाधिकानि योजनशतानि अबाहाए त्ति अबाधया व्यवधानेन 'कृत्वे 'ति शेषः, ज्योतिषं ज्योतिश्चक्रं चारं परिभ्रमणं चरति आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश एक्कारे त्ति एकादशयोजनाधिकानि एकादश योजनशतानि अबाधया 10 व्यवहिततया ‘कृत्वे’ति शेषः, जोतिसंते त्ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति इदं च वाचनान्तरं व्याख्यातम्, उक्तं च
६
एक्कारसंक्वीस सय एक्काराहिया य एक्कारा ।
मेरुअलोगाबाहं जोइसचक्कं चरड़ ठाइ || [बृहत्सं० १०५] इति ।
अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनापि दृश्यते । 15 विमाणसयं भवति त्ति मक्खायं ति इह मकारस्यागमिकत्वादयमर्थः विमानशतं भवतीति कृत्वा आख्यातं प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामि
वचनम् ।
तथा मंदरे णं पव्व णं धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं पण्णत्ते, अस्यायमर्थः– मेरुर्भूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽ - 20 १. "निरये जे४.२ खं० ॥ २ पेसपरिण्णाए खं० जे१ हे१ मध्ये नास्ति ।। ३ द्वीपे नास्ति हे२ विना ।। ४. विंशे ह२ विना ॥। ५. "कानि एकादश योजनशतानि जे२ खंसं० ॥। ६. एकादश योजनशतानि इति पाठ: कुत्रापि नास्ति, केवलं खंसं० मध्ये पश्चात् पूरितः । ७. “इह यथासङ्ख्येन पदानां योजना, सा चैवम्एकादश योजनशतान्यकविंशत्यधिकानि मेरोरबाधामपान्तरालरूपां कृत्वा मनुष्यलोकवर्ति चरं ज्योतिश्चक्रं चरति । तथैकादश योजनशतान्येकादशाधिकान्यलोकाकाशस्याबाधामपान्तरालरूपां कृत्वा एतावद्भिर्योजनशतैरलाकाकाशादव स्थित्वेत्यर्थः, स्थिरं ज्योतिश्चक्रं तिष्ठति ॥ १०५ ॥ इति जिनभद्रगणिक्षमाश्रमणविरचितबृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ॥