SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे भावना प्रकाशे दिवा न रात्रावित्यर्थः, दिवापि चाप्रकाशदेशे न भुङ्क्ते अशनाद्यभ्यवहरतीति विकटभोजी, मोलिकडे त्ति अबद्धपरिधानकच्छ इत्यर्थः, षष्ठप्रतिमेति प्रकृतम्, अयमत्र भावः- प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत् षष्ठी प्रतिमा भवतीति । तथा सचित्त इति सचेतनाहारः परिज्ञांतः तत्स्वरूपादिपरिज्ञानात् 5 प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतम्, इयमत्र पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत् सप्तमी प्रतिमा भवतीति । तथा आरम्भः पृथिव्याद्युपमर्द्दनलक्षणः परिज्ञातः तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमी प्रतिमेति, इह भावनासमस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति । तथा प्रेष्याः 10 आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान् यावन्नवमी प्रतिमेति । तथा उद्दिष्टं तमेव श्रावकमुद्दिश्य कृतं भक्तम् ओदनादि उद्दिष्टभक्तम्, तत् परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतम्, इहायं भावार्थःपूर्वोदितगुणयुक्तस्याधाकर्मिकभोजन परिहारवतः क्षुरमुण्डितशिरसः शिखावतो वा केनापि 15 किञ्चिद् गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदेवंविधविहारस्य दशमी प्रतिमेति । तथा श्रमणो निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः साधुकल्प इत्यर्थः, चकारः समुच्चये, अपिः सम्भावने, भवति श्रावक इति प्रकृतम्, हे श्रमण ! हे आयुष्मन् ! इति सुधर्मस्वामिना जम्बूस्वामिनमामन्त्रयतोक्तम् इत्येकादशीति । इह चेयं भावना20 पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयतो भिक्षार्थं गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित् पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादश मासान् यावदेकादशी प्रतिमा भवतीति । पुस्तकान्तरे त्वेवं वाचना - दंसणसावर प्रथमा, कयवयकम्मे द्वितीया, "जात: स्वरूपा ख० ॥ ४० १.
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy