________________
एकादशस्थानकम् ।
30
[ म० ११]
सामायिकं सावद्ययोगपरिवर्जन- निरवद्ययोगासेवनस्वभावं कृतं विहितं देशतो ये सामायिककृतः, आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वम्, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति । तथा पोषं पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत् पौषधम्, तेनोपवसनम् अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं पर्वदिनमष्टम्यादि 5 तत्रोपवासः अभक्तार्थः पौषधोपवास इति इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहार- शरीरसत्कारा-ऽब्रह्मचर्य-व्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः स एवंविधश्रावकश्चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः पूर्वप्रतिमात्रयोपत: (पेतस्य) अष्टमी - चतुर्दश्यमावास्या पौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावच्चतुर्थप्रतिमा भवतीति । तथा 10 पञ्चमप्रतिमायामष्टम्यादिषु पर्वस्वे करात्रिक प्रतिमाकारी भवतीति एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते, दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी, रत्तिं ति रात्रौ किम् ? अत आह— परिमाणं स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावः - दर्शन-व्रतसामायिका-ऽष्टम्यादिपौषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा 15 ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्याऽरात्रिभोजिनः अबद्धकच्छस्य पञ्च मासान् यावत् पञ्चमी प्रतिमा भवतीति, उक्तं च
अद्रुमिचउद्दसीसुं पडिमं ठाएगराईयं । पश्चार्द्धम् ।
असिणाणवियडभोई मउलियडो दिवसबंभयारी य ।
*
रत्तिं परिमाणकडो पडिमावज्जेस दियहेसु ॥ [ पञ्चाशक० १०।१७-१८ ]त्ति ॥ तथा दिवापि रात्रावपि ब्रह्मचारी, असिणाइ त्ति अस्नायी स्नानपरिवर्जकः, क्वचित् पठ्यते - अनिसाइ ति न निशायामत्तीत्यनिशादी, वियडभोइ त्ति विकटे प्रकटे
१. ८९९ निष्ठा | २|२| ३६ | निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । ९०० वाऽऽहिताग्न्यादिषु |२| २|३७| आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ।" इति पाणिनीयव्याकरणस्य व्याख्यायां सिद्धान्तकौमुद्याम् ॥ २. मान चतुरो जर । जर अनुसारेण तु पूर्वप्रतिमात्रयांपेतः अष्टमी - चतुर्दश्यमावास्या पौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानाः । चतुरो मासान् यावत चतुर्थप्रतिमा भवतीति' इति पाठः संभवेदत्र ॥ ३. भवत्येतदर्थं खं० ॥
20