________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
पज्जत्तगाणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तूणाई |
इमीसे णं रयणप्पभाए पुढवीए एवं जाव विजय - वेजयंत- जयंत - अपराजियाणं देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं 5 बत्तीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाणि । सव्व अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता ।
२६८
10
[टी०] अनन्तरं नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह- नेरइयाणं भंते इत्यादि सुगमम्, नवरं स्थितिः नारकादिपर्यायेण जीवानामवस्थानकालः, अपज्जत्तयाणं ति, नारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्तं यावदपर्याप्तका भवन्ति ततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थितिर्जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौधिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकाऽपर्याप्तकविभागः
15
नारदेवा तिरिमणुयगब्भया जे असंखवासाऊ ।
एते उ अपज्जत्ता उववाए चेव बोद्धव्वा || []
सेसा य तिरियमणुया लद्धिं पप्पोववायकाले य ।
ओवि भइव्वा पज्जत्तियरे य जिणवयणं ॥ [ ] ति ।
उक्ता सामान्यतो नारकस्थितिः, विशेषतस्तामभिधातुमिदमाह - इमीसे णमित्यादि, स्थितिप्रकरणं च सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह - एवमिति यथा प्रज्ञापनायां 20 सामान्य - पर्याप्तका -ऽपर्याप्तकलक्षणेन गमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ता एवमिहापि वाच्या, कियद्दूरं यावदित्याह - जाव विजयेत्यादि, अनुत्तरसुराणामौघिका-ऽपर्याप्तक-पर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह
१. अत्रैव समवायाङ्गसूत्रे एकत्रिंशत्स्थानके “विजय वेजयंत- जयंत अपराजिताणं देवाणं जहणणेणं एकतीसं सागरोवमाई ठिती पण्णत्ता" [सू० ३१] इति अभिहितम्, अत्र तु जघन्येन द्वात्रिंशत् सागरोपमाणि उक्तानि । कथमेकत्रैव सूत्रे परस्परं विसंवादः ? || अनुयोगद्वारसूत्रे [सू०३९१[९]], प्रज्ञापनासूत्रे चतुर्थे पदे ४३६ [३] तमे सूत्रे उत्तराध्ययनसूत्रे षट्त्रिंशत्तमेऽध्ययने [ गा०२४३] च एकत्रिंशद् एव जघन्येन स्थितिरुक्ता ।।