________________
[सृ० १५२) नारकादिस्थितिवर्णनम्-औदारिकादिशरीरवर्णनम् ।
२६९ चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि- रत्नप्रभानारकाणां भदन्त ! कियती स्थितिः ?, गौतम! जघन्येन दश वर्षसहस्राणि, उत्कर्षतः सागरोपमम् १, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम ! उभयथाऽपि अन्तर्मुहूर्तम् २, एवं पर्याप्तकानां सामान्योक्तैवान्तर्मुहूर्तांना वाच्या ३, एवं शेषपृथिवीनारकाणां प्रत्येक दशानामसुरादीनां पृथिवीकायिकादीनां तिरश्चां गर्भजेतरभेदानां 5 मनुष्याणा व्यन्तराणामष्टविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्मादीनां वैमानिकानां च गमत्रय वाच्यम्, इह च विजयादिषु जघन्यतो द्वात्रिंशत् सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदम्, पर्याप्तकाऽपर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमैर्वाच्येति ।।
[सू० १५२] कति णं भंते ! सरीरा पण्णत्ता ? गोतमा ! पंच सरीरा 10 पण्णत्ता, तंजहा- ओरालिए जाव कम्मए ।
ओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तंजहा- एगिंदियओरालियसरीरे जाव गब्भवक्कं तियमणुस्सपंचिंदिय
ओरालियसरीरे य । ओरालियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं 15 जोयणसहस्सं । एवं जहा ओगाहणसंठाणे ओरालियपमाणं तहा निरवसेसं,
१. "हर्त्तम् २. पर्याप्तकानां तु सामान्यो हे२ ।। २. तत्त्वार्थटीकाकर्तुः सिद्धसेनाचार्यस्य गन्धहस्तिनाम्ना प्रसिद्धिरस्ति । किन्तु तत्त्वार्थस्य सिद्धसेनाचार्यविरचिताया टीकायामीदृशः पाठो वर्तते- “विजयादिषु चतुर्षु जघन्येन एकविंशत् उत्कर्षेण द्वात्रिंशत्, सर्वार्थसिद्ध त्रयस्त्रिंशत् सागरोपमाणि अजघन्योत्कृष्टा स्थितिः । भाष्यकारेण तु सर्वार्थसिद्धऽपि जघन्यापि द्वात्रिंशत् सागरोपमाण्यधीता, तन्न विद्मः केनाप्यभिप्रायेण' [तत्त्वार्थटीका ४।३२] । अत इदमभयदेवरिवचनं तत्त्वार्थव्याख्याकर्तुः सिद्धसेनाचार्यस्य गन्धहस्तित्वप्रसिद्धिबाधकम्, ततश्चिन्त्यमिदम् ।
रत: परत: पूर्वा पूर्वाऽनन्तरा [तत्त्वार्थसू० ४।४२] माहेन्द्रात् परतः, पूर्वा परा अनन्तरा जघन्या स्थितिर्भवति. तद्यथा - माहेन्द्र परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या स्थितिर्भवति, ब्रह्मलोके दश सागरोपमाणि परा स्थितिः सा लान्तके जघन्या । एवमा सर्वार्थसिद्धादिति' इति तत्त्वार्थभाष्ये पाठः ४।४२।। __ दिगम्बरपरम्परायां तु उपरिमोवेयकेषु प्रथमे एकान्नत्रिंशत्, द्वितीये त्रिंशत्, तृतीये एकत्रिंशत्, अनुदिशविमानेषु द्वात्रिंशत्, विजयादिषु त्रयस्त्रिंशत् सागरोपमाणि उत्कृष्टा स्थितिः, सर्वार्थसिद्धे त्रयस्त्रिंशदेवेति' इति तत्त्वार्थराजवार्तिके ४॥३२॥ ३. प्रज्ञापनासूत्रस्य एकविंशतितमे अवगाहनासंस्थानपदे एतद विस्तरेण वर्णितमस्ति ।