________________
२६७
[सू० १५१ ]
असुरकुमारावासादिवर्णनम् ।
आदित्यस्तद्वत् प्रभान्ति शोभन्ते यानि तान्यर्चिमालिप्रभाणि, तथा भासानां प्रकाशानां राशिः भासराशि: आदित्यस्तस्य वर्णस्तद्वदाभा छाया वर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय त्ति अरजांसि स्वाभाविकरजोरहितत्वात्, नीरयत्ति नीरजांसि आगन्तुकरजोविरहात्, निम्मल त्ति निर्मलानि कक्खटमलाभावात्, वितिमिराणि आहार्यान्धकाररहितत्वात्, विशुद्धानि स्वाभाविकतमोविरहात् 5 सकलदोषविगमाद्वा, सर्वरत्नमयानि न दार्वादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत्, लक्ष्णानि सूक्ष्मस्कन्धमयत्वात्, घृष्टानीव घृष्टान खरशानया पाषाणप्रतिमेव, मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेवेति, निष्पङ्कानि कलङ्कविकलत्वात् कर्दमविशेषरहितत्वाच्च, निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेत्यर्थः छाया दीप्तिर्येषां तानि निष्ककटच्छायानि, 10 प्रभाणि प्रभाववन्ति, समरीचीनि सकिरणानीत्यर्थः, सोद्योतानि वस्त्वन्तरप्रकाशनकराणीत्यर्थः, पासाईएत्यादि प्राग्वत् ।
सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पण्णत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता । एवमीशानादिष्वपि द्रष्टव्यम्, एतदेवाह - एवं ईसाणाइति, एवं गाहाहिं भाणियव्वं ति बत्तीस अट्ठावीसा इत्यादिकाभिः 15 पूर्वोक्तगाथाभिः, तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो यथा- ते णं विमाणेत्यादि यावत् पडिरूवा, नवरमभिलापभेदोऽयं यथा- ईसाणे णं भंते ! कप्पे केवइया विमाणावासा पण्णत्ता ?, गोयमा ! अट्ठावीसं विमाणावाससयसहस्सा पण्णत्ता, ते णं विमाणा जाव पडिरूवा । एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति ॥
१
[सू० १५१] नेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता । अपज्जत्तगाणं भंते ! नेरइयाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं ।
१. यथा नास्ति जे२ ।। २. प्रज्ञापनासूत्रे चतुर्थे स्थितिपदे विस्तरेणेदं सर्वं विद्यते ॥
20