________________
२५५
[सू० १४८
दृष्टिवादस्वरूपम् । वीवयंति त्ति व्यतिव्रजन्ति, व्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवम्, नवरं वीवइस्संति त्ति व्यतिव्रजिष्यन्ति, व्यतिक्रमिष्यन्तीत्यर्थः ।
यदिदमनिष्टेतरभेदभिन्नं फलं प्रतिपादितमेतत् सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह- दुवालसंगेत्यादि, द्वादशाङ्ग णमित्यलकारे गणिपिटकं न कदाचिन्नासीदनादित्वात्, न कदाचिन्न भवति सदैव भावात, न 5 कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि ? भुविं चेत्यादि, अभूच्च भवति च भविष्यति च, ततश्चेदं त्रिकालभावित्वादचलत्वाच्च ध्रुवं मेर्वादिवत्, ध्रुवत्वादेव नियतं पञ्चास्तिकायेषु लोकवचनवत्, नियतत्वादेव शाश्वतं समयावलिकादिषु कालवचनवत्, शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्मह्रदवत्, अक्षयत्वादेवाऽव्ययं मानुषोत्तराबहिः समुद्रवत्, अव्ययत्वादेव स्वप्रमाणेऽवस्थितं 10 जम्बूद्वीपादिवत्, अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आहसे जहा नामए इत्यादि, तद्यथा नाम पञ्चास्तिकाया धर्मास्तिकायादय: न कदाचिन्नासन्नित्यादि प्राग्वत्, एवामेवेत्यादि दार्टान्तिकयोजना निगदसिद्धैवेति । __ एत्थ णमित्यादि, अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीति भावा जीवादयः पदार्थाः, एते च जीव-पुद्गलानन्तत्वादनन्ता 15 इति, तथा अनन्ता अभावाः, सर्वभावानामेव पररूपेणासत्त्वात्त एवानन्ता अभावा इति, स्व-परसत्ताभावा-ऽभावोभयाधीनत्वाद्वस्तुतत्त्वस्य, तथाहि- जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति । अन्ये तु धर्मापेक्षया अनन्ता भावा: अनन्ता अभावा: प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धा इति व्याचक्षते ।
तथाऽनन्ता हेतवः, तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, 20 ते चानन्ताः, वस्तुनोऽनन्तधात्मकत्वात्, तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः, सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति, यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः तथा अनन्तानि कारणानि मृत्पिण्ड-तन्त्वादीनि घट-पटादिनिर्वर्तकानि, तथा अनन्तान्यकारणानि सर्वकारणानामेव कार्यान्तराकारणत्वात्, न हि मृत्पिण्ड: पटं १. "त्यादिः खं० जे१,२ ॥