________________
२५६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
निर्वर्त्तयतीति । तथा अनन्ता जीवा: प्राणिनः, एवमजीवा: व्यणुकादयः, भवसिद्धिका भव्याः इतरे तु अभव्याः । सिद्धा निष्ठितार्थाः, इतरे संसारिणः, आघविजंतीत्यादि पूर्ववदिति ।
[सू० १४९] [१] दुवे रासी पण्णत्ता, तंजहा- जीवरासी य अजीवरासी 5 य । अजीवरासी दुविहा पण्णत्ता, तंजहा- रूविअजीवरासी य
अरूविअजीवरासी य । से किं तं अरूविअजीवरासी ? अरूविअजीवरासी दसविहा पण्णत्ता, तंजहा- धम्मत्थिकाए जाव अद्धासमए, जाव से किं तं अणुत्तरोववातिया? अणुत्तरोववातिया पंचविहा पण्णत्ता, तंजहा- विजय
वेजयंत-जयंत-अपराजिय-सव्वट्ठसिद्धया, सेत्तं अणुत्तरोववातिया, सेत्तं 10 पंचेंदियसंसारसमावण्णजीवरासी ।
दुविहा णेरइया पण्णत्ता, तंजहा- पज्जत्ता य अपजत्ता य, एवं दंडओ भाणियव्वो जाव वेमाणिय त्ति ।
[टी०] द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमभिधित्सुराह- दुवे रासीत्यादि । इह च प्रज्ञापनाया: प्रथमपदं प्रज्ञापनाख्यं 15 सर्वं तदक्षरमध्येतव्यम्, किमवसानमित्याह- जाव से किं तमित्यादि, केवलमस्य
प्रज्ञापनासूत्रस्य चायं विशेषः, इह दुवे रासी पण्णत्ता इत्यभिलापः, तत्र तु दुविहा पण्णवणा पण्णत्ता - जीवपण्णवणा अजीवपण्णवणा य [प्रज्ञापना० ३] त्ति, अतिदिष्टम्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदर्श्यतेतत्राऽजीवराशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा- धर्मास्तिकाय20 स्तदेशस्तत्प्रदेशाश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवं नव दशमोऽद्धासमय इति । रूप्यजीवराशिश्चतु - स्कन्धा देशाः प्रदेशा: परमाणवश्चेति, ते च वर्ण-गन्ध-रस-स्पर्श-संस्थानभेदतः पञ्चविधाः संयोगतोऽनेकविधा इति । जीवराशिर्द्विविध:- संसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्ना जीवा द्विविधा:अनन्तर-परम्परसिद्धभेदात्, तत्रानन्तरसिद्धा: पञ्चदशप्रकारा:, परम्परसिद्धास्त्वनन्तप्रकारा
१. प्रज्ञापना० १४७ ।।