________________
२५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे य भविस्संति य, धुवा णितिया जाव णिच्चा, एवामेव दुवालसंगे गणिपिडगे ण कयाति ण आसि, ण कयाति णत्थी, ण कयाति ण भविस्सति, भुविं च भवति [य] भविस्सइ य, जाव अवट्टिते णिच्चे । ____एत्थ णं दुवालसंगे गणिपिडगे अणंता भावा, अणंता अभावा, अणंता 5 हेऊ, अणंता अहेऊ, अणंता कारणा, अणंता अकारणा, अणंता जीवा,
अणंता अजीवा, अणंता भवसिद्धिया, अणंता अभवसिद्धिया, अणंता सिद्धा, अणंता असिद्धा, आघविजंति पण्णविजंति परूविजंति दंसिजंति निदंसिज्जति उवदंसिजंति ।।
टी०] साम्प्रतं द्वादशाङ्गे विराधनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह10 इच्चेयमित्यादि, इत्येतद् द्वादशाङ्गं गणिपिटकमतीतकाले अनन्ता जीवा
आज्ञया विराध्य चतुरन्तं संसारकान्तारम् अणुपरियटिंसु त्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्ग सूत्रार्थो भयभेदेन त्रिविधम्, ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथापाठादिलक्षणया, अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारक-तिर्यङ्-नरा-ऽमरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, 15 अनुपरावृत्तवन्तो जमालिवत्, अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया
गोष्ठामाहिलवत्, उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत्, सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा द्रव्य-क्षेत्र-काल-भावापेक्षमागमोक्तानुष्ठानमेवाज्ञा, तया, तदकरणे नेत्यर्थः । इच्चेयमित्यादि गतार्थमेव, नवरं परीत्ता जीवा इति संख्येया जीवाः, वर्तमान20 विशिष्टविराधकमनुष्यजीवानां संख्येयत्वात्, अणुपरियटुंति त्ति अनुपरावर्त्तन्ते, भ्रमन्तीत्यर्थः । इच्चेयमित्यादि, इदमपि भावितार्थमेव, नवरम् अणुपरियट्टिस्संति त्ति अनुपरावर्त्तिष्यन्ते, पर्यटिष्यन्तीत्यर्थः ।
इच्चेयमित्यादि कण्ठ्यम्, नवरं विइवइंसु त्ति व्यतिव्रजितवन्तः, चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरम् अयं विशेष:१. विई जे२ ॥