________________
२४०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकर्यः, तासाम्, पुनः किंभूतानां तासाम् ? अतिसयमतीतकालसमये त्ति अतिशयेन योऽतीतः कालसमय: स तथा, तत्र, अतिव्यवहिते काले इत्यर्थः, दमः शमस्तत्प्रधानः तीर्थकराणां दर्शनान्तरशास्तृणामुत्तमो
यः स तथा भगवान् जिनः, तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं स्थापनम् आसीद् 5 अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिर:शेखरकल्प: पुरुषविशेष:
एवंविधप्रश्नानामन्यथानुपपत्तेः' इत्येवंरूपम्, तस्य कारणानि हेतवो या तास्तथा, तासाम्, पुनस्ता एव विशिनष्टि दुरभिगमं दुरवबोधं गम्भीरसूक्ष्मार्थत्वेन दुर बगाहं च दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य, सर्वेषां सर्वज्ञानां सम्मतम् इष्ट सर्वसर्वज्ञसम्मतम्, अथवा
सर्वं च तत् सर्वज्ञसम्मतं चेति सर्वसर्वज्ञसम्मतं प्रवचनतन्वमित्यर्थः, तस्य, 10 अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः, पचखयपच्चयकरीणं ति
प्रत्यक्षकेण ज्ञानेन साक्षादित्यर्थो य: प्रत्यय: ‘सर्वातियनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनम' इत्येवंरूपा प्रतिपत्तिः, अथवा प्रत्यक्षेणेवानेनार्थाः प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रतीतिः प्रत्यक्षताप्रत्ययस्तत्करणशीला: प्रत्यक्षकप्रत्ययकर्यः प्रत्यक्षताप्रत्ययको वा, तासां प्रत्यक्षकप्रत्ययकरीणां 15 प्रत्यक्षताप्रत्ययकरीणां वा, कासामित्याह- प्रश्नानां प्रश्नविद्यानाम् उपलक्षणत्वादन्यासा
च यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणा बहविधप्रभावास्ते च ते महार्थाश्च महान्तोऽभिधेयाः पदार्थाः शुभाशुभसूचनादयो विविधगुणमहार्थाः, किंभूता: ? जिनवरप्रणीता:, किमित्याह आघविजंति त्ति आख्यायन्ते, शेषं पूर्ववत्, नवरं
यद्यपीहाध्ययनानां दशत्वाद् दशैवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया 20 पञ्चचत्वारिंशदिति सम्भाव्यते इति पणयालीसमित्याद्यविरुद्धमिति । संखेजाणि
पयसयसहस्साणि पदग्गेणं ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति ।।१०।। _[सू० १४६] से किं तं विवागसुते ? विवागसुए णं सुकडदुक्कडाणं कम्माणं १. काल: समय: खं० ॥ २. समसमस्तत्प्र जे२ ।। ३. प्रत्यक्षेणैवा जे२ ।। ४. प्रत्यक्षकप्रत्यय जे२॥ ५. नवतिल हे२ विना ।।