SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३९ सू० १४५ प्रश्नव्याकरणवर्णनम् । भवनपतिविशेषैरुपलक्षणत्वाद् यक्षादिभिश्च सह ‘साधकस्य' इति गम्यते, दिव्या: तात्त्विका: संवादा: शुभाशुभगता: संलापा: आख्यायन्ते । एतदेव प्रायः प्रपञ्चयन्नाहपण्हावागरणदसेत्यादि, स्वसमय-परसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकण्ड्वादिसदृशैर्विविधार्था यका भाषा गम्भीरेत्यर्थः तया भाषिता: गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धविविधार्थभाषाभाषिताः, तासाम्, किम् ? - 5 आदर्शाङ्गुष्ठादीनां सम्बन्धिनीनां प्रश्नानां विविधगुणमहार्थाः प्रश्नव्याकरणदशास्वाख्यायन्त इति योगः, पुनः किम्भूतानां प्रश्नानाम् ? अइसयगुणउवसमनाणप्पगारआयरियभासियाणं ति अतिशयाश्च आमर्षोषध्यादयो गुणाश्च ज्ञानादय उपशमश्च स्वपरभेदः, एते नानाप्रकारा येषां ते तथा, ते च ते आचार्याश्च तैर्भाषिता यास्तास्तथा, तासाम्, कथं भाषितानामित्याह- वित्थरेणं ति विस्तरेण महता वचनसन्दर्भेण, तथा 10 स्थिरमहर्षिभिः. पाठान्तरे वीरमहर्षिभिः विविहवित्थरभासियाणं च त्ति विविधविस्तरेण भाषितानाम्, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः, पुनः कथंभूतानां प्रश्नानाम् ? जगहियाणं ति जगद्धितानां पुरुषार्थोपयोगित्वात्, किंसम्बन्धिनीनामित्याहअदाग त्ति आदर्शश्चाङ्गुष्ठश्च बाहू च असिश्च मणिश्च क्षौमं च वस्त्रम् आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुड्य-शख-घटादीनां ते तथा, तेषां 15 सम्बन्धिनीनाम्, प्रश्नविद्याभिरादर्शकादीनामावेशनात्, किंभूतानां प्रश्नानामत आह- विविधमहाप्रश्नविद्याश्च वाचैव प्रश्ने सत्युत्तरदायिन्य: मनःप्रश्नविद्याश्च मन:प्रनितार्थोत्तरदायिन्यः, तासां दैवतानि तदधिष्ठातृदेवताः, तेषां प्रयोगप्राधान्येन तव्यापारप्रधानतया गुणं विविधार्थसंवादनलक्षणं प्रकाशयन्ति लोके व्यञ्जयन्ति यास्ता विविधमहाप्रश्नविद्या-मनःप्रश्नविद्या-दैवतप्रयोगप्राधान्यगुणप्रकाशिकाः, 20 तासाम्, पुनः किंभूतानां प्रश्नानाम् ? सद्भूतेन तात्त्विकेन द्विगुणेन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन, पाठान्तरे विविधगुणेन, प्रभावेन माहात्म्येन नरगणमते: मनुजसमुदयबुद्धेर्विस्मयकर्यः चमत्कारहेतवो याः प्रश्नास्ताः १. पहावागरणमित्यादि ख० जे१.२ ।। २. वित्थारेणं हे१ विना ।। ३. वित्थार' हे२ विना ।। ४. प्रत्युत्तर जे२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy