SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१७ [सू० १३७ सूत्रकृताङ्गवर्णनम् । ऽधम-मातृ-पितॄणां प्रत्येकं काय-वाङ्-मनो-दानैश्चतुर्द्धा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति । ___ एवं चैतेषां चतुर्णा वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते- तिण्हमित्यादि, वूहं किच्च त्ति प्रतिक्षेपं कृत्वा स्वसमयो जैनसिद्धान्तः स्थाप्यते । यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः स्वरूपमाह- 5 नाणेत्यादि, नाना अनेकधा बहभिः प्रकारैरित्यर्थः, दिटुंतवयणनिस्सारं ति स्याद्वादिना पूर्वपक्षीकृतानां प्रवादिनां स्वपक्षस्थापनाय यानि दृष्टान्तवचनान्युपलक्षणत्वाद्धेतुवचनानि च तदपेक्षया निस्सारं सारताशून्यं परेषां मतमिति गम्यते, सुष्ठ पुनरप्रतिक्षेपणीयत्वेन दर्शयन्तौ प्रकटयन्तौ तथा विविधश्चासौ सत्पदप्ररूपणाद्यनेकानुयोगद्वाराश्रितत्वेन विस्तारानुगमश्च अनुगमनीयाने कजीवादितत्त्वानां विस्तरप्रतिपादनं विविध- 10 विस्तारानुगमः, तथा परमसद्भावः अत्यन्तसत्यता वस्तूनामैदम्पर्यमित्यर्थः, तावेव गुणौ ताभ्यां विशिष्टौ विविधविस्तारानुगमपरमसद्भावगुणविशिष्टौ, मोक्खपहोयारग त्ति मोक्षपथावतारको, सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः, उदार त्ति उदारौ सकलसूत्रार्थदोषरहितत्वेन निखिलतद्गुणसहितत्वेन च, तथाऽज्ञानमेव तमः अन्धकारमात्यन्तिकान्धकारमथवा प्रकृष्टमज्ञानमज्ञानतम 15 तदेवान्धकारमज्ञानतमोऽन्धकारमज्ञानतमान्धकारं वा, तेन ये दुर्गा दुरधिगमास्ते तथा, तेषु, तत्त्वमार्गेष्विति गम्यते, दीवभूय त्ति प्रकाशकारित्वाद् दीपोपमौ, सोवाणा चेव त्ति सोपानानीव उन्नताऽऽरोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्य सिद्धिलक्षणा सुगतिः सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्च सुदेवत्व-सुमानुषत्वलक्षणा सिद्धि-सुगती, तल्लक्षणं यद् गृहाणामुत्तमं गृहोत्तमं वरप्रासादस्तस्य 20 सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते, निक्खोहनिप्पकंप त्ति निक्षोभौ वादिना क्षोभयितुं चलयितुमशक्यत्वात् निष्प्रकम्पौ स्वरूपतोऽपीषद्व्यभिचारलक्षणकम्पाभावात्, कावित्याह – सूत्रार्थो सूत्रं चार्थश्च नियुक्ति-भाष्य-सङ्ग्रहणि-वृत्ति-चूर्णि-पञ्जिकादिरूप १. इव सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्च खं० जे१ । इव सिद्धिसुगइगृहोत्तमस्य सिद्धिलक्षणा सुगति सिद्धिच सुगतिश्च जे२ ॥ २. गम्यं निक्खो जे२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy