________________
[सू० १३६] आचाराङ्गवर्णनम् ।
२११ से समास[ओ] इत्यादि, स: आचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्त्तते समासत: संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा- ज्ञानाचार इत्यादि, तत्र ज्ञानाचारः श्रुतज्ञानविषयः कालाध्ययन-विनयाध्ययनादिरूपो व्यवहारोऽष्टधा, दर्शनाचारः सम्यक्त्ववतां व्यवहारो निःशङ्कितादिरूपोऽष्टधा, चारित्राचारः चारित्रिणां समित्यादिपालनात्मको व्यवहारः, तपआचारो द्वादशविधतपोविशेषानुष्ठितिः, 5 वीर्याचारो ज्ञानादिप्रयोजनेषु वीर्यस्याऽगोपनमिति । आचारस्स त्ति आचारग्रन्थस्य, णमित्यलङ्कारे, परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवतीत्यर्थः, का ? वाचना सूत्रार्थप्रदानलक्षणा, अवसर्पिण्युत्सर्पिणीकालं वा प्रतीत्य परीतेति । संख्येयान्यनुयोगद्वाराणि उपक्रमादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च । संखेजाओ पडिवत्तीओ त्ति द्रव्यादिपदार्थाभ्युपगमा 10 मतान्तराणीत्यर्थः, प्रतिमाद्यभिग्रहविशेषा वा। संखेजा वेढ त्ति वेष्टका: छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये । संखेजा सिलोग त्ति श्लोकाः अनुष्टप्छन्दांसि। संख्याता: निर्युक्तयः, निर्युक्तानां सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्तिः घटना विशिष्टा योजना निर्युक्तयुक्तिः, एतस्मिंश्च वाच्ये युक्तशब्दलोपान्नियुक्तिरित्युच्यते, एताश्च निक्षेपनियुक्त्याद्याः संख्येया इति । से णमित्यादि, स आचारो णमित्यलङ्कारे 15 अङ्गार्थतया अङ्गलक्षणवस्तुत्वेन प्रथममङ्गं स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्गं प्रथमम्, पूर्वगतस्य सर्वप्रवचनात् पूर्वं क्रियमाणत्वादिति द्वौ श्रुतस्कन्धौ अध्ययनसमुदायलक्षणौ । पञ्चविंशतिरध्ययनानि, तद्यथासत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ संमत्तं ४ ।
आवंति ५ धुय ६ विमोहो ७ महापरिण्णो ८ वहाणसुयं ९ ॥ [आव० सं० ] ति 20 प्रथमश्रुतस्कन्धः ।
१. भवंती जे२ ॥ २. वा नास्ति जे१ ॥ ३. प्रतिषु पाठः- परीत्तेति जे२ हे१,२ । परीते त्ति खं० जे१।। ४. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने ‘अट्ठावीसविहे आयारकप्पे' इति सूत्रस्य हरिभद्रसूरिविरचितायां वृत्तौ इद गाथाद्वयं दृश्यते, तत्र च पूर्वापरसम्बन्धानुसारेण आवश्यकसंग्रहणिकारविरचितमिदं गाथाद्वयं प्रतीयते।