________________
२१०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
आचरणमाचारः आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते । आयारेणं ति अनेनाचारेण करणभूतेन श्रमणानामाचाराद्याख्यायत इति योगः, अथवा आचारेऽधिकरणभूते
णमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां 5 सबाह्याभ्यन्तरग्रन्थरहितानाम्, आह- श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम्, उक्तं च- निग्गंथ-सक्क-तावसगेरुय-आजीव पंचहा समण [पिण्डनि० ४४५] त्ति, तत्राऽऽचारो ज्ञानाद्यनेकभेदभिन्नः, गोचरो भिक्षाग्रहणविधिलक्षणः, विनयो ज्ञानादिविनयः, वैनयिकं तत्फलं कर्मक्षयादि,
स्थानं कायोत्सर्गोपवेशन-शयनभेदात् त्रिरूपम्, गमनं विहारभूम्यादिषु गतिः, 10 चङ्क्रमणम् उपाश्रयान्तरे शरीरश्रमव्यपोहाद्यर्थमितस्ततः सञ्चरणम्, प्रमाणं भक्त
पाना-ऽभ्यवहारोपध्यादेर्मानम्, योगयोजनं स्वाध्याय-प्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनम्, भाषा संयतभाषा सत्या-ऽसत्यामृषारूपा, समितयः ईर्यासमित्याद्याः पञ्च, गुप्तयो मनोगुप्त्यादयस्तिस्रः, तथा शय्या च वसतिरुपधिश्च वस्त्रादिको भक्तं च
अशनादि पानं च उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादनैषणालक्षणानां दोषाणां 15 विशुद्धिः अभाव उद्गमोत्पादनैषणाविशुद्धिः, ततः शय्यादीनामुद्गमादिविशुद्ध्या
शुद्धानां तथाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणम्, तथा व्रतानि मूलगुणा नियमा: उत्तरगुणास्तपउपधानं द्वादशविधं तपः, तत आचारश्च गोचरश्चेत्यादि यावद् गुप्तयश्च शय्यादिग्रहणं च व्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत् सुप्रशस्तं चेति कर्मधारयः, एतत् सर्वमाख्यायते अभिधीयते । एतेषु चाऽऽचारादिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत् सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति । १. “निग्गंथ-सक्क-तावस-गेरुय-आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज को आप्पं ? ॥४४५।। व्या०- निर्ग्रन्था: साधवः, शाक्या: मायासूनवीयाः, तापसाः वनवासिनः पाखण्डिनः, गैरुका: गेरुकरञ्जितवासस: परिव्राजकाः, आजीवका: गोशालकशिष्या इति पञ्चधा पञ्चप्रकाराः श्रमणा भवन्ति, एतेषां च यथायोग गृहिगृहेषु समागतानां परिवेषणे भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः लोभेन आहारादिलुब्धतया वनति शाक्यादिभक्तमात्मानं दर्शयति, तद्भक्तगृहिणः पुरत इति सामर्थ्यगम्यम् ।।४४५॥"- इति पिण्डनिर्युक्तौ मलयगिरिसूरिविरचितायां वृत्तौ ।