________________
[सू० १३६] आचाराङ्गवर्णनम् ।
२०९ संखेजा सिलोगा, संखेजातो निजुत्तीतो । से णं अंगट्ठयाए पढमे अंगे, दो सुतक्खंधा, पणुवीसं अज्झयणा, पंचासीती उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारस पदसहस्साइं पदग्गेणं पण्णत्ते । संखेजा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आघविजंति पण्णविज्जति परूविज्जति 5 दंसिजति निदंसिर्जति उवदंसिजति । से एवंआता, एवंणाता, एवंविण्णाता। एवं चरणकरणपरूवणया आघविजति पण्णविज्जति परूविज्जति दंसिजति निदंसिजति उवदंसिजति । सेत्तं आयारे ।
[टी०] इह य एते अनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशागे प्ररूप्यन्त इति द्वादशाङ्गस्यैव 10 स्वरूपमभिधित्सुराह- दुवालसंगे इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते- दुवालसंगे इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि द्वादशाऽङ्गानि आचारादीनि यस्मिंस्तद् द्वादशाङ्गम्, गुणानां गणोऽस्यास्तीति गणी आचार्यः, तस्य पिटकमिव पिटकं सर्वस्वभाजनं गणिपिटकम्, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम्- 15
आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ॥ [आंचा० नि० १०] परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकम्, अत्र चैवं पदघटना - यदेतद् गणिपिटकं तत् द्वादशाङ्गं प्रज्ञप्तम्, तद्यथा- आचारः सूत्रकृत इत्यादि।
से किं तमित्यादि. अथ किं तदाचारवस्तु ? यद्वा अथ कोऽयमाचार: ? 20 १. “यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरण-करणात्मको वा श्रमणधर्मः परिज्ञातो भवति तस्मात् सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति' इति शीलाचार्यविरचितायामाचाराङ्गटीकायां प्रथमेऽध्ययने प्रथमे उद्देशके ।। २. आचारादीनां दृष्टिवादपर्यन्तानां द्वादशानामङ्गानां स्वरूपं नन्दीसूत्रस्य हारिभद्रीवृत्त्यनुसारेण प्रायः सर्वं वर्णितमत्र, अतो विशेषजिज्ञासुभिः नन्दीसूत्रस्य हरिभद्रसूरिभिर्विरचिता वृत्तिरवलोकनीया । यद्यपि नन्दीसूत्रस्य जिनदासगणिमहत्तरविरचितायां चूर्णावपि एतादृशं किञ्चिद् वर्णनमुपलभ्यते, तथापि इयम् अभयदेवसूरिभिर्विरचिता वृत्तिः बहुषु स्थानेषु प्रायोऽक्षरशः नन्दीहारिभद्रीवृत्तिमनुसरति इति ध्येयम् ॥