________________
२१२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
पिंडेसण १ सेजि २ रिया ३ भासजाया य ४ वत्थ ५ पाएसा ६ ।
उग्गहपडिमा ७ सत्त सत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥ [आव० सं०] इति द्वितीयश्रुतस्कन्धः ।
एवमेतानि निशीथवर्जानि पञ्चविंशतिरध्ययनानि । तथा पञ्चाशीतिरुद्देशनकाला:, 5 कथम् ?, उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं च शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त १ षट् २ चतु ३ श्चतुः ४ षट् ५ पञ्च ६ अष्ट ७ सप्त ८ चतु ९ रेकादश १० त्रि ११ त्रि १२ द्वि १३ द्वि १४ द्वि १५ द्वि १६ संख्या उद्देशनकालाः षोडशस्वध्ययनेषु, शेषेषु नवसु
नवैवेति, इह सङ्ग्रहगाथा10 सत्त य छ च्चउ चउरो छ पंच अटेव सत्त चउरो य ।
एक्कारा ति ति दो दो दो दो सत्तेक्क एक्को य ॥ [ ] त्ति ।
एवं समुद्देशनकाला अपि भणितव्याः । अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत् पदम् । ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश
पदसहस्राणि पदाग्रेण भवन्ति, ततो यद् भणितं नवबंभचेरमइओ अट्ठारसपदसहस्सिओ 15 वेउ [आचा० नि० ११] त्ति तत् कथं न विरुध्यते ? उच्यते, यत् द्वौ श्रुतस्कन्धावित्यादि
तदाचारस्य प्रमाणं भणितम्, यत् पुनरष्टादश पदसहस्राणि तन्नवब्रह्मचर्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणम्, विचित्रार्थबद्धानि च सूत्राणि, गुरूपदेशतस्तेषामर्थोऽवसेय इति । संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात् । अनन्ता गमा:, इह गमा:
अर्थगमा गृह्यन्ते, अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव 20 सूत्रात्तत्तद्धर्मविशिष्टानन्तधात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते -
अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः । अनन्ता: पर्याया: स्वपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः । परित्तास्त्रसा आख्यायन्त इति योगः, वसन्तीति त्रसा: द्वीन्द्रियादयस्ते च परीत्ता नानन्ताः, एवंरूपत्वादेव तेषाम् । अनन्ता: स्थावरा वनस्पतिकायसहिताः ।
१. दृश्यतामत्र पृ०७१ पं०९ ।। २. परीत्ता जे२ ।। ३. परीता खं० जे१ ।।