________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्रे
प्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम्, आह च- अयले भयभेरवाणं खंतिक्खमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं कए महावीरे [पर्युषणा० ] त्ति। कथम्भूतेनेत्याहआदौ प्राथम्येन श्रुतधर्ममाचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील
आदिकरः, तेन । तथा तरन्ति तेन संसारसागरमिति तीर्थं प्रवचनम्, तदव्यतिरेकादिह 5 सङ्घस्तीर्थम्, तस्य करणशीलत्वात् तीर्थकरः, तेन । तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह– स्वयम् आत्मनैव नान्योपदेशतः सम्यग् बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति स्वयंसम्बुद्धः, तेन ।
स्वयंसम्बुद्धत्वं चास्य न प्राकृतस्येवासंभाव्यं पुरुषोत्तमत्वादस्येत्यत आह– पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद् ऊर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमः, तेन । अथ 10 पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह- सिंह इव सिंहः, पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः, शौर्यं तु भगवतो बाल्ये प्रत्यनीक देवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुब्जताकरणाच्च इति, अतस्तेन । तथा
वरं च तत् पुण्डरीक च वरपुण्डरीकं धवलं सहस्रपत्रम्, पुरुष एव वरपुण्डरीक 15 पुरुषवरपुण्डरीकम्, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वेश्च
शुभैरनुभावैः शुद्धत्वादिति, अतस्तेन । तथा वरश्चासौ गन्धहस्ती च वरगन्धहस्ती, पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव सर्वगजा भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईति-परचक्र-दुर्भिक्ष- जनमरकादीनि दुरितानि नश्यन्तीति.
अतस्तेन पुरुषवरगन्धहस्तिना । 20 न भगवान् पुरुषाणामेवोत्तमः, किन्तु सकलजीवलोकस्यापीत्यत आह– लोकस्य ___ तिर्यग-नर-नरकि-नाकिलक्षणजीवलोकस्य उत्तमः चतु स्त्रिंशद्बद्धातिशयाद्य
साधारणगुणगणोपेततया सकलसुरा-ऽसुर-खचर-नरनिकरनमस्यतया च प्रधाना
१. पीयूषपाना देवाः, तेषां प्रभव इन्द्रा इत्यर्थः ।। २. दृश्यतां पृ.३ टि० ३ ॥ ३. प्राणा जे१. खं० ।। ४. तथा नास्ति जे१ ख० ।। ५. चास्य प्राकृ' ख० ।। ६. 'धुपमात्रयेणास्य जे२ ॥ ७. 'प्रहतवर्ध' ज२ ।। ८. शुभत्वा जे२ ।। ९. च नास्ति जे२ खं० ।। १०. "जनडमरका जे१ ।। ११. दरितानि नश्यंतीति [सपाद- खंस०) शतयोजनमध्ये अतस्तेन ज? खं० ।