________________
[म० १]
सम्बन्धसूत्रम् ।
लोकोत्तमः, तेन । लोकोत्तमत्वमेवास्य पुरस्कुर्वन्नाह- लोकस्य सञ्जिभव्यलोकस्य नाथ: प्रभुर्लोकनाथः, तेन । नाथत्वं चास्य योग-क्षेमकृन्नाथ: [ ] इति वचनाद् अप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य तस्यैव पालनेन चेति । लोकनाथत्वं च तात्त्विकं तद्धितत्वे सति सम्भवतीत्याह- लोकस्य एकेन्द्रियादिप्राणिगणस्य हित: आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकूलवृत्तिर्लोकहितः, तेन । यदेतन्नाथत्वं हितत्वं वा 5 तद्भव्याना यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह- लोकस्य विशिष्टतिर्यग्नरा-ऽमररूपस्याऽऽन्तरतिमिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वात् प्रदीप इव प्रदीपो लोकप्रदीपः, तेन । इदं च विशेषणं द्रष्ट्रलोकमाश्रित्योक्तम्, अथ दृश्य लोकमाश्रित्याह- लोकस्य लोक्यते इति लोक इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थ- 10 केवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः, तेन ।
ननु लोकनाथत्वादिविशेषणयोगी हरि-हर-हिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह- न भयं दयते प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः, अभया वा 15 सर्वप्राणिभयपरिहारवती दया घृणा यस्य सोऽभयदय:, हरि-हरादिस्तु नैवमिति, तेनाऽभयदयेन । न केवलमसावपकारकारिणामप्यनर्थपरिहारमात्रं करोति, अपि त्वर्थप्राप्ति करोतीति दर्शयन्नाह- चक्षुरिव चक्षुः श्रुतज्ञान शुभाशुभार्थविभागकारित्वात्, तद्दयते इति चक्षुर्दयः. तेन । यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह - मार्गं सम्यग्दर्शन-ज्ञान-चारित्रात्मकं परमपदपथं दयत 20 इति मार्गदय:, तेन । यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तान निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह- शरणं त्राणं नानोपद्रवोपद्रुतानां तद्रक्षास्थानम्, तच्च परमार्थतो निर्वाणम्, तद्दयत इति शरणदय:,
१. "तथा लोकनाथेभ्य इति योगक्षेमकृदयमिति विद्वत्प्रवादः” इति ललितविस्तरायाम् ।। २. "त्यत आह खं० ।। ३. भवतीति जर हे१.२ ।।