SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [सू० ९१] एकनवतिस्थानकम् । आउय-गोयवज्जाणं छण्हं कम्मपगडीणं एक्काणउतिं उत्तरपगडीओ पण्णत्ताओ । [टी०] अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषाम् आत्मव्यतिरिक्तानां वैयावृत्यकर्म्माणि भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः अभिग्रहविशेषाः परवैयावृत्यकर्म्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, 5 केवलं विनय-वैयावृत्यभेदा एते सन्ति, तथाहि - दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च सक्कार १ अब्भुट्ठाणे २ सम्माणा ३ ऽऽसणअभिग्गहो ४ तह य । आसणअणुप्पयाणं ५ किइकम्मं ६ अंजलिगहो य ७ ॥ १८७ इंतस्सगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥ [ ]त्ति । तत्र सत्कारो वन्दन-स्तवनादिः १, अभ्युत्थानम् आसनत्यागः २, सन्मानो वस्त्रादिपूजनम् ३, आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणमिति ४, आसनानुप्रदानम् आसनस्य स्थानात् स्थानान्तरसञ्चारणम् ५, कृतिकर्म्मादीनि प्रकटानि । तथा तीर्थकरादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे 15 षष्टिविधोऽनाशातनाविनयो भवति, तथाहि तित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । सम्भोय ९ किरियाए १० मइनाणाईण १५ य तहेव ।। [ ] अत्र भावना- तीर्थकराणामनाशातना, तीर्थकरप्रज्ञप्तस्य धर्मस्य अनाशातना, एवं सर्वत्र । कायव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ य । अरहंतमाझ्याणं केवलनाणावसाणाणं ॥ [ ] ति । तथौपचारिकविनयः सप्तधा, यदाह 10 १. एता वक्ष्यमाणाश्च सर्वा अपि विनयसम्बद्धा गाथा दशवैकालिकस्य प्रथमेऽध्ययने हरिभद्रसूरिविरचितायां वृत्तावन्यत्र च समुद्धृताः सन्ति । विशेषतो जिज्ञासुभिः परिशिष्टे टिप्पनेषु द्रष्टव्यम् ॥ 20
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy