________________
१८८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अब्भासच्छण १ छंदाणुवत्तणं २ कयपडिकीई तहय ३ । कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय ५ ।। तह देसकालजाणण ६ सव्वत्थेसु तहय अणुमई भणिया ७ ।
उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ [ ] ति, 5 अभ्यासासनम् उपचरणीयस्यान्तिकेऽवस्थानम्, छन्दानुवर्त्तनम् अभिप्रायानुवृत्तिः,
कृतप्रतिकृति म प्रसन्ना आचार्याः सूत्रादि दास्यन्ति ‘न नाम निर्जरा' इति मन्यमानस्याहारादिदानम्, कारितनिमित्तकरणं सम्यक् शास्त्रमध्यापितस्य विशेषण विनये वर्त्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्यं दशधा, यदाह
आयरिय उवज्झाए थेर-तवस्सी-गिलाण-सेहाणं । 10 साहम्मिय-कुल-गण-संघसंगयं तमिह कायव्वं ॥ [ ] ति.
तत्र प्रव्राजना १ दिगु २ देश ३ समुद्देश ४ वाचना ५ चार्यभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदाः, एते एव अभिग्रहविषयीकृताः प्रतिमा उच्यन्त इति ।
तथा कालोयणे त्ति कालोदसमुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, 15 आधिक्यं च सप्तत्या सहस्रैः षभिः शतैः पञ्चोत्तरैः सप्तदशभिर्धनु:शतैः पञ्चदशोत्तरैः
सप्ताशीत्या चाङ्गुलैः साधिकैरिति । आहोहिय त्ति नियतक्षेत्रविषयावधयः । आयुर्गोत्रवर्जानां षण्णामिति ज्ञानावरण-दर्शनावरण-वेदनीय-मोहनीय-नामाऽन्तरायाणां क्रमेण पञ्च-नव-द्वयष्टाविंशति-द्विचत्वारिंशत-पञ्चभेदानामिति ।।९।।
[सू० ९२] बाणउइं पडिमातो पण्णत्ताओ ।। 20 थेरे णं इंदभूती बाणउतिं वासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे [जाव प्पहीणे ।
मंदरस्स णं पव्वतस्स बहुमज्झदेसभागातो गोथुभस्स आवासपव्वतस्स पच्चत्थिमिल्ले चरिमंते एस णं बाणउतिं जोयणसहस्साइं अबाहाए अंतरे पण्णत्ते। एवं चउण्ह वि आवासपव्वयाणं । १. शास्त्रपदमपितस्य खं० ।। २. भेदाचार्य' जे२ खमू० ।। ३. सत्कारादि १०. अनाशातनादि ६०, औपचारिक ७. वैयावृत्य १४ = ९१ ॥ ४. कालायणे जे१.२ हे१.२ ।। ५. अहो' जे२ ।।