SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे नवतिस्थानकम् । सहस्राणि राज्यं शेषाण्येकादश [शतानि] कुमारत्व-माण्डलिकत्वा-ऽनगारत्वेषु अवसेयानि । इह शान्तिजिनस्यैकोननवतिरार्यिकासहस्राण्युक्तानि, आवश्यके त्वेकषष्टिः सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति ॥८९।। [सू० ९०] सीयले णं अरहा णउइं धणूइं उटुंउच्चत्तेणं होत्था । 5 अजियस्स णं अरहओ णउई गणा नउई गणहरा होत्था । एवं संतिस्स वि । सयंभुस्स णं वासुदेवस्स णउतिं वासाइं विजए होत्था । सव्वेसि णं वटवेयडपव्वयाणं उवरिल्लातो सिहरतलातो सोगंधियकंडस्स हेट्ठिल्ले चरिमंते एस णं नउतिं जोयणसयाइं अबाहाए अंतरे पण्णत्ते । 10 [टी०] अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राऽजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः, आवश्यके तु पञ्चनवतिरजितस्य षट्त्रिंशत्तु शान्तेरुक्ताः, तदिदमपि मतान्तरमिति । तथा स्वयम्भूः तृतीयवासुदेवः, तस्य नवतिर्वर्षाणि विजयः पृथिवीसाधनव्यापारः । सव्वेसि णमित्यादि, सर्वेषां विंशतेरपि वर्तुलवैताढ्यानां शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिक15 काण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति ॥१०॥ सू० ९१] एक्काणउई परवेयावच्चकम्मपडिमातो पण्णत्तातो । कालोयणे णं समुद्दे एक्काणउतिं जोयणसयसहस्साइं साहियाइं परिक्खेवेणं पण्णत्ते । 20 कुंथुस्स णं अरहतो एक्काणउतिं आहोहियसता होत्था । १. “अज्जासंगहमाणं उसभाईणं अओ वुच्छ ॥२५९॥ तिण्णेव य लक्खाई १ तिण्णि य तीसा य २ तिण्णि छत्तीसा ३। तीसा य छच्च ४ पंच य तीसा ५ चउरो अ वीसा अ ६ ॥२६०॥ चत्तारि य तीसाई ७ तिणि य असिआई ८ तिण्हमेत्तो अ । वीसुत्तरं ९ छलहियं १० तिसहस्सहिअंच लक्खं च ११ ॥२६१।। लक्खं १२ अट्ट सयाणि य १३ बावट्टि सहस्स १४ चउसयसमग्गा १५ । एगट्ठी छच्च सया १६ सट्टिसहस्सा सया छच्च १७ ॥२६२।। सट्टि १८ पणपण्ण १९ पण्णे २० गचत्त २१ चत्ता २२ तहट्टतीसं च २३ । छत्तीसं च सहस्सा २४ अजाणं संगहो एसो ।।२६३।।" - इति आवश्यकनियुक्तौ ।। २. दृश्यतां पृ० १४० टि० ३ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy