SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ [सू० ८४] चतुरशीतिस्थानकम् । १७९ तीसा य १ पण्णवीसा २ पण्णरस ३ दसेव ४ तिण्णि य ५ हवंति । पंचूणसयसहस्सं ६ पंचेव ७ अणुत्तरा निरया ॥ [बृहत्सं० २५५] इति । श्रेयांस: एकादशस्तीर्थकर: एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः । तथा तिविट्ठ त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति । अप्रतिष्ठानो नरकः सप्तमपृथिव्यां पञ्चानां 5 मध्यम इति । तथा सामाणिय त्ति समानर्द्धयः । तथा बाहिरय त्ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीतिः सहस्राणि प्रज्ञप्ता: अंजणगपव्वय त्ति जम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जनकपर्वताः । हरिवासेत्यादि, चत्तारि य भागा जोयणस्स त्ति एकोनविंशतिभागाः, इहार्थे गाथार्द्धम् 10 धणुपट्ट कलचउक्त चुलसीइ सहस्स सोलहिय ॥ [बृहत्क्षेत्र० ५९] त्ति [८४०१६:९ ] तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीतिः सहस्राणीति यथोक्तसूत्रार्थ इति । तथा व्याख्याप्रज्ञप्त्यां भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण पदपरिमाणेन, इह च यत्रार्थो पलब्धिस्तत् पदम्, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्विगुणद्विगुणत्वाच्च शेषाङ्गानां 15 व्याख्याप्रज्ञप्तिट्टै लक्षे अष्टाशीतिश्च सहस्राणि पदानां भवतीति । तथा चतुरशीतिर्नागकुमारावासलक्षाणि चतुश्चत्वारिंशतो दक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति । चतुरशीतिर्योनयो जीवोत्पत्तिस्थानानि, ता एव प्रमुखानि द्वाराणि * १. "प्रथमायां रत्नप्रभायां पृथिव्यां त्रिंशच्छतसहस्राणि नरकावासानां ३०००००० । द्वितीयस्यां पञ्चविंशतिः शतसहस्राणि २५००००० । तृतीयस्या पञ्चदश १५००००० । चतुर्थ्यां दश १०००००० । पञ्चम्यां त्रीणि ३०००००। षष्ठ्यां पञ्चोनं शतसहस्र ९९९९५ । सप्तम्यां पञ्चैव ५ अनुत्तराः सर्वाधोवर्तिनो नरकावासाः । ते चैवम्- पूर्वस्यां दिशि कालनामा नरकावासोऽपरस्यां दिशि महाकालो दक्षिणस्यां रोरुक उत्तरस्यां महारोरुको मध्येऽप्रतिष्ठानः ॥२५५।।" इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ।। २. बाहरिय जे२ ।। ३. अंजनपर्वता: जे१ खं० ।। ४. “तिर्भागा: खं० ॥ ५. चउक्क चुलसीइं जे२ । चउक्कं चुलसीई खं० जे१ ॥ ६. एतद्विगुणत्वाच्च शेषा' जे? खं० ।। ७. समवायाङ्गे भगवतीसूत्रवर्णनेऽपि चतुरासीति पयसहस्साई पयग्गेणं' इत्येवाभिहितम्, किन्तु नन्दीसूत्रे भगवतीसूत्रवर्णने 'दो लक्खा अट्टासीतिं पयसहस्साई पयग्गेणं' इत्यभिहितम् ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy