________________
5
20
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
योनिप्रमुखानि तेषां शतसहस्राणि लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथम् ?
विगलिंदिए दो दो चउरो चउरो य नारय- सुरेसु ।
२
*
"
तिरिएसु होंति चउरो चोस लक्खा य मणुसु ॥ [ बृहत्सं० ३५१ - ३५२] ति । इह च जीवोत्पत्तिस्थानानामसंख्येयत्वेऽपि समानवर्ण - गन्ध-रस - स्पर्शानां तेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति । पुव्वाइयाणमित्यादि, पूर्वमादिर्येषां तानि पूर्वादिकानि तेषाम्, शीर्षप्रहेलिका पर्यवसाने येषां तानि 10 शीर्ष प्रहेलिकापर्यवसानानि तेषाम्, स्वस्थानात् पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः स्थानान्तराणि अनन्तरस्थानान्यव्यवहितसंख्याविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसंख्यास्थानविशेषा इत्यर्थः, अथवा स्वस्थानानि पूर्वस्थानानि स्थानान्तराणि च अनन्तरस्थानानि स्वस्थान - स्थानान्तराणि, अथवा 15 स्वस्थानात् प्रथमस्थानात् पूर्वाङ्गलक्षणात् स्थानान्तराणि विलक्षणस्थानानि स्वस्थानस्थानान्तराणि तेषाम्, चतुरशीत्या लक्षैरिति शेषः, अभ्यासराशिः गुणकार: प्रज्ञप्तः, तथाहि - किल चतुरशीत्या लक्षैः पूर्वाङ्गं भवतीति स्वस्थानम्, तदेव चतुरशीत्या लक्षैर्गुणितं पूर्वमुच्यते तच्च स्थानान्तरमिति, एवं पूर्वं स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवति, इह सङ्ग्रहगाथेपुव्वतुडियाडडाववहूहुय तह उप्पले य पउमे य । नलिणत्थनिउर अउए नउए पउए य नायव्वे ॥ [ ] चूलियसीसपहेलिय चोद्दस नामा उ अंगसंजुत्ता । अट्ठावीस ठाणा चउणउयं होइ ठाणसयं ॥ [ ] ति ।
"
अभिलापश्चैषाम् - पूर्वाङ्गं पूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति । चउरासीतिमित्यादि, इह विभागोऽयम् -
१. चउदस जे१ खं० ॥ २. चउदस जे१ ।। ३ अत्र संग्रह जे१ खं० ॥ ४. हुहुय जे२ हे ॥
25
१८०
पुढवि - दग-अगणि-मारुय एक्क्के सत्त जोणिलक्खाओ । व पत्ते अणं दस चोद्दस जोणिलक्खाओ ||